________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
परिभाषाभाष्यवृत्त्योः. विहितत्वादुपांशुल्वे प्राप्ते तयोर्यान्यङ्गानि ऋग्वेदविहितानि तत्रोखैस्त्वं होता च कर्ता स्यात्, यानि यजुर्वेदविहितानि तत्राध्वर्युः कर्तेति ॥
ह.-सर्वयज्ञानां त्रिभिरेव विधानं प्रसक्तं तन्माभूदित्युपरितनसूत्राणामारम्भः । ऋग्वेदश्च यजुर्वेदश्च ऋग्वेद यजुर्वेदौ । दर्श इति सूर्याचन्द्रमसोः परः सन्त्रिकर्षाभिधीयते । पश्यन्ति हि सूर्याचन्द्रमसौ सहभूतावस्मिन् काले कालज्ञाः । एतत्कालसंयोगादहोरात्रौ । तत्कालवर्तित्वादानेयादिप्रधानसमुदायः । मास इति चन्द्रमसआख्या । एवं ह्याहुनॆक्ताः मासो मासात्कालश्चन्द्रमाश्चेति । पूर्णो मासो यस्मिन् काले स पूर्णमासः तद्योगादहोरात्रौ तत्कालवर्तित्वादानेयादिप्रधानसमुदायः । दर्शश्च पूर्णमासश्च दर्शपूर्णमासौ । तावृग्वेदयजुर्वेदाभ्यां विधीयते, न सामवेदेनेत्यर्थः । यश्च यजुर्वेदे हौत्राम्नायः स ऋग्वेदशेष एव । यच्च सूत्रकारेण हौत्रमानातं तद्वेदान्तरात् कृत्स्नविधिमुपादायानातं मन्तव्यम्॥ ५. क-साङ्गं यजुर्वेदविहितमिति अध्वर्युकर्तृत्वमुपांशुत्वं च ।
ह.-अग्निहोत्रमिति कर्मनामधेयं । तस्य ब्राह्मणनिर्वचनं “ सोनिरबिभेत् ” इत्यारभ्य “स एतद्भागधेयमभ्यजायत । यदग्रिहोत्रं । तस्मादमिहोत्रमुच्यते” इति । अनेरत्र सायमाहुतिरिति प्रवृत्तिकारणं । अग्निहोत्रं यजुर्वेदेन विधीयते । न ऋग्वेदसामवेदाभ्यामित्यर्थः । यश्चाग्निहोत्रविधिराम्रात: ऋग्वेदे स यजुर्वेद शेष एव। यचाश्वलायनेनाग्निहोत्रमानातं तद्यजुर्वेदादेव विधिमुपादाया नातमिति मन्तव्यम् ।।
For Private and Personal Use Only