________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः
__१३ विधीयत इति विधिः । विविच्य पुनरभिहितं उच्चैर् ऋग्वेदसाम वेदाभ्यामिति स्वरंविधानार्थ । ऋग्वेदेन होना करोतीत्यादिभिः ऋविनियमार्थ च ॥
__ ह.-स यज्ञो व्याख्येयतया प्रतिज्ञानो' न विज्ञायते केन ग्रन्थेन विधीयत इति तत्प्रतिज्ञानायारभ्यते स त्रिभिरिति । त्रिभिः वेदैः । वेदयतीति वेदः । ऋग्वेदश्च यजुर्वेदश्च सामवेदश्च ऋग्वेदयजुर्वेदसामवेदाः। नैर्यज्ञो विधीयते । ननु ऋग्वेदयजुर्वेदसामवेदैरित्येनत्सूत्रमस्तु । स त्रिभिदैरित्यनर्थकं । उच्यते । स इति वचनं स एव ऋग्वेदविहितः स एव यजुर्वेदविहितः स एव सामवेदविहित इति वेदत्रयविहिनानां ज्योतिष्टोमादीनां प्रतिपत्त्यर्थ। त्रिभिरिति वचनं त्रिभिरेव तस्याङ्गस्य विधिः समाप्यने नैकेनेति ज्ञापनार्थ । अतो वेदत्रयविहिताङ्गकलापस्य उपसंहारः । यथा वसन्ते ज्योतिष्टोमेनेति सामवेदाम्नातस्य वसन्तकालस्य। वेदैरिति वचनं सर्वशास्त्रप्रत्ययं सर्वब्राह्मण प्रत्ययमेकं कर्मेति प्रतिपत्त्यर्थं। अत: शास्त्रान्तरस्थाङ्गस्योपसंहारः । वैकल्पिकश्चायमुपसंहारः। शांखाभेदस्यार्थवत्वात् । अत एव स्वाध्यायमधीयीत स्वाध्यायोध्येतव्य इति चैकत्वविवक्षायां एकैकस्यामेव शाखायां दृष्टार्थ भवति । ___४. क-ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ साङ्गौ विधीयेने। “ यदायोष्टाकपालोमावाम्यायाम्" इत्यादिभिर्वाक्यैर्यजुर्वेद
घ्याख्वेयतया प्रतिज्ञायते. तस्य यागस्य विधिः. शिखाभेदेनातस्यार्थवत्वात् शाखाभेदस्यार्थत्वात्.
तत्प्रत्यभिज्ञानायारभ्यते. ब्राह्मणवदप्रत्यय, ब्राह्मणवदत्रप्रत्यय. 6शाखायामध्ययनमदृष्टार्थ भवति.
For Private and Personal Use Only