________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः. . ह. स खल' यज्ञः श्रेयस्साधनत्वाद्यो निश्श्रेयसार्थी तस्य प्राप्तः श्रेयोथित्वेपि शूद्रस्य मा भूदितीदमारभ्यते । ननु ब्राह्मणराजन्यवैश्यानामित्येतदेव सूत्रमस्तु । स त्रयाणां वर्णाना मित्यनर्थकं । वैश्यस्येत्यसमानेन ग्रहणं चानर्थकं । उच्यते । पूर्वसूत्रे यज्ञमिति द्वितीयान्तेन कर्मतया निर्दिष्टवादस्मिन् सूत्रे कर्मतयानुवत्तिर्मा भूदिति स इति निर्दिष्टः । त्रयाणामिति वचनं ब्राह्मणस्य भार्यात्वेन शास्त्रान्तर विहिताभ्यां क्षत्रियवैश्याभ्यां वसन्ताधाने ज्योतिष्टोमादिषु च ब्राह्मणस्य सहाधिकारार्थ त्रयाणा परस्पर सहितानामधिकार इति । यद्वा ब्राह्मणभार्यायाश्शूद्रायाः पतिप्रयुक्तसहाधिकारमाशङ्कच तस्याः प्रतिषेधार्थ त्रयाणामेवाधिकारो न शूद्राया इति । " रमणायैव साऽथ न धर्माय " इति वसिष्ठवचनात् ।वर्णग्रहणमिन्द्रवरुणादीनां देवानां तिरश्चां च पश्चादीनां ऋषीणां च वसिष्ठादीनां अधिकारनिवृत्त्यर्थं । वैश्यस्येत्यसमासनिर्देश: “ एतेन द्वौ त्रीन्वा याजयेत् " इत्यनेक यजमानेष्वहीनेषु वैश्येन सहानयोरधिकारनिवृत्त्यर्थ । चकारो निषादस्थपतेरत्रैणिकस्याप्यधिकारसमुच्चयार्थः ॥
३. क-स तु यज्ञस्त्रिभिर्वेदैस्साध्यो यागः विधीयते । नैकेन वेदेन नैकशाखया वा तस्य साङ्गस्य यागस्य विधि: । यतस्सर्वेषु वेदेषु सर्वासु शाखासु श्रूयमाणोग्निहोत्रदर्शपूर्णमासज्योतिटोमादिरेक एवाभिन्नः द्वितीयादिदर्शनदेवदत्तवत्प्रतीयते । अत एकस्यैव सतस्तत्र तत्र वेदशाखायां श्रुतिलिङ्गवाक्यप्रकरण समाख्यानैरङ्गान्युपदिश्यन्ते । अतस्त्रिभिरेवैतैस्साङ्गस्य विधिः ।
सिचायं यज्ञः.
शाखान्तर.
परस्परहेतूनामधिकार.
For Private and Personal Use Only