________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्ड:.. २. क-स तु याग: आदितस्त्रयाणां वर्णानां ब्राह्मणराजन्यवश्यानामदुष्टकर्मणामनुष्टानसमर्थानां सपत्नीकानां कामिनां प्रत्येकमुपदिश्यन्ते । वैश्यस्य चेति पृथङ् निर्देशान्न क्वचिद्बहुयजमाने कर्मणि वैश्यस्य ब्राह्मण [राजन्याभ्यां सह प्रयोगः। ब्राह्मणराजन्ययोरिति द्वन्द्वसमासात "एतेन द्वौ वा त्रीन्वा याजयेत्” इत्यादौ तयोरन्योन्यसहितयोर्यजमानत्वं लभ्यते । त्रयाणां वर्णानां यागोपदेशात् “धर्मे चार्थे च कामे च नातिचरितव्या" इति “सहोभी धर्मम्” इति च लिङ्गात् “ क्षौमे वसानौ जायापती अनिमादधीयाताम्" इति श्रुतेश्च ब्राह्मणस्य ब्राह्मण्या जायया सहाधिकार: क्षत्रियवैश्याभ्यां जायाभ्या मिति च लभ्यते। क्षत्रियस्य क्षत्रियया सह वैश्ययापि लभ्यते । वैश्यस्य वैश्ययैव । न नु शूद्रया सह सर्वेषां; “तस्माच्छूद्रो यज्ञेनवकृप्तः” इति वचनात् । वैश्यस्य चेति चकारात् क्वचिदत्रैवर्णिकस्याप्यदुष्टस्येदं भवति स्थपतेः, “निषादस्थपति याजयेत्” इति वचनात् । क्वचि [दपत्नी] कस्य पशुरवकीर्णिनः, “यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत इति" वचनात् । तयोराधानाभावालौकिकेप्वनिषु यज्ञप्रयोगः । स्थपते [रुपनय नाभावाद्यावद्भिर्याजमान मन्त्रैरिटिसिद्धिस्तावतोनुपनीत एवाधीते । यावन्तो मन्त्राः आधानादिषु पत्नीभिरुच्चार्यास्ते सर्वे ताभिरध्येतव्याः । तासामप्युपनयनाभावात् । स त्रयाणां वर्णानामिति ग्रहणात् वर्णत्रयापेतानां यज्ञो न स्यात् । “वसन्ते ब्राह्मणमुपनयीत। ग्रीष्मेराजन्यं । शरदि वैश्यं । वसन्तो ब्राह्मणस्याधाने । ग्रीष्मो राजन्यस्य । हेमन्तो वा शरद्वैश्यस्य" इत्येव सर्वत्र वर्णत्रयस्योपनयनाधानाभिधानात् । तस्मात् त्रयाणां वर्णानामधिकारः ॥
For Private and Personal Use Only