________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत
Acharya Shri Kailassagarsuri Gyanmandir
चतुथैः खण्डः.
इति चेत्, एव प्रसङ्गः– यथा सवनीयपशुना सवनीयानां न कश्चित्सम्बन्धः तथापि पश्वर्थं कृतं प्रयाजाद्यपूर्वमनुपसंहृतं सवनीयानां पशुपुरोडाशानां प्रसङ्गादुपकरोति । एवं प्रकृत्यर्थं कृताऽन्वारम्भणीया विकृतीनामप्युपकरोतीति ॥
१०३
--
अपर आह—— वैमृथान्वारम्भणीये दर्शपूर्णमासविकारौ - त्स्थं क्लृप्तमुपकारमाकाङ्क्षते । तौ च दर्शपूर्णमासौ तयोरुपकाराकाङ्क्षायां तत्साध्यरहितमेवोपकारं कल्पयित्वा तयोरन्यासां च विकृतीनां प्रयच्छतः । ततो विकृतिध्वन्वारम्भणीया न कर्तव्येति ||
एवं तु युक्तायुक्तत्वेन सूत्रत्रयेण हेतुन्वदनस्सूत्रकारस्याभिमतानभिमतत्वेन च विचारणीयम् ॥
२१. क. - अर्थशब्दः प्रयोजनवाची । प्रयोजनं चाधिसाध्यविहितकर्मानुष्ठानम् । तादर्थ्ये चतुर्थी । वीप्सा च विहितकर्मानुष्ठानव्याप्त्यर्था । तस्य तस्य कर्मणोनुष्टानार्थ गार्हपत्यादिभ्य आहवनीयानिं प्रणयेत् । न हि सकृत्प्रगीत एव सर्वकर्माणि साधयति । यत्र यो यदर्थं प्रणीनस्तस्मिन् कर्मण्यपवृत्ते परिसमाप्ते सोग्निलौकिकस्सम्पद्यते लौकिको भवति न शास्त्रीयाहवनीयादिः, यथा समारूढे: । द्विविधो ह्यमि:, एक: प्रत्यक्षद्दश्यः, अपरस्रत्रैव संस्कारात्मको देवताभूतः । तयोस्संपृक्तं रूपं विहितकर्मकारकं, नैकैकम् । तत्रारण्योर्देवतात्मके समारूढे इतरस्तद्रहितो म'ह— नीयार्थमा,
हन.
For Private and Personal Use Only