________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
परिभाषाभाष्यवृत्योः मावास्यया यजेत । पौर्णमास्यां पौर्णमास्या' इति । अमावास्यायागोमावास्यायां पश्चदश्यामपक्रम्प प्रतिपदि समाप्यः । पौर्णमासीयागश्च पौर्णमास्यां पश्चदश्यामुपक्रम्य प्रतिपदि समाप्यः । अतो न विकृतेः प्रकृतिकालमध्यत्वम् । अतो विकृत्यर्थमन्वारम्मणीया स्यादेव अनुष्ठेयैव ॥
२०. क.-चकारेण विकृतौ स्यादेवान्वारम्भणीयेत्येतदपकृष्यते । दर्शपूर्णमासावारभमाणस्य अन्वारम्भणीया विहिता । आरम्भश्च तयोर्दशपर्णमासाभ्यां यक्ष्ये इति निश्चयपुरस्सरस्सङ्कल्पः । स चान्वा धानक्रमः । स चारम्भो 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत ' इति शास्त्रान्तरविहितयावज्जीवदर्शपूर्णमासप्रयोगाणामाधानानन्तरमादितस्सकृदेव भवति, आरब्धदर्शपूर्णमासत्वात् । न चैष विकृतीनामारम्भः, तासां कर्मभेदान्निमित्तभेदाच । स्वर्गकामस्य तन्नि मित्त आरम्भः प्रकृत्यारम्भाद्विभक्तः । कामनिमित्तभेदादेव विकृतीनां परस्परं चान्वारम्भविभागः । तस्मात् आरम्भविभागाच विकृतावन्वारम्भणीयानुष्ठेया ॥ ___ अत्र केचिदाहुः--विकृतिष्वन्वारम्भणीया न कर्तव्या। सा हि सर्वदर्शपूर्णमासार्था तत्प्रयोगाद्वहिरेवादितः प्रयुज्यते । सा ह्यपूर्वात्मना दर्शपूर्णमासयोरुपकरोति । जरामरणाद्यावत्तिष्ठति । न प्रयोगमध्ये कृतप्रयानाद्यपूर्ववत्प्रतिप्रयोग परिसमाप्यते । तदन्वारम्भणीयापूर्वमनुपसंहृतं प्रकृतेरिव विकृतीनामप्युपकरोति । कथमन्यार्थं कृतमन्यस्योपकरोति ? 1क-सा. न चान्वा. ह-नान्वा.
क-सा, ह–स चान्वारम्भो. ह-......भेदाच्च । स कामनि: 4६-अजरा यावजीवं तिष्ठति.
For Private and Personal Use Only