________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः खण्डः. पृथगनुष्ठेया । सवनीयपशोः कृताः प्रयाजादयः तत्कालवर्तिनां सवनीयानां प्रसङ्गादुपकुर्वन्ति, यथा जामदग्न्ये चतूरात्रे, यथा च राजमार्गे रात्रौ कृतः प्रदीपः तस्काले भुानानामप्युपकरोति । एवं प्रकृत्यर्थे कृताऽन्वारम्भणीया तत्कालमध्यवर्तिनीनां विकृतीनामुपकरोति । तस्मात् विकृतौ न स्यात् नानुष्ठेया ॥
१९. क.-वाशब्दोवधारणे । स्यादेवान्वारम्भणीया, विकृतौ कर्तव्यैव । कुन: ? कालस्याशेषभूतत्वात्-प्रकृतयोर्दर्शपूर्णमासयोरशेषभूतः कालो जीवनपरिच्छिन्नः, तादृशकालस्य विधायकवाक्याभावात् । ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ' इति स्वर्गकामस्य दर्शपूर्णमासौ विधाय 'यावज्जीवं दर्शपूर्णमासाभ्यां' इति जीवनभुत्या सिद्धजीवनं निमित्तत्वेनोपादाय तत्वतस्स्वर्गकामादन्यस्य दर्शपूर्णमासौ विधीयते इति जीवतावश्यं दर्शपूर्णमासौ कर्तव्यो स्वकालेऽकुर्वतः प्रत्यवाय इति यावज्जीववाक्यार्थः । यदि यावज्जीववाक्येन जीवनपरिच्छिन्नः कालस्स्वर्गकामस्य दर्शपूर्णमासयोर्विधीयेत, ततो जीवनशब्देन तत्परिच्छिन्नः कालोत्र कथ्यते । जीवनशब्दम्य श्रुत्या जीवनं निमित्तत्वेन अवतो न काललक्षणा न्याय्या । न वान्यज्जीवनपरिच्छिन्नकालविधायकवाक्यमास्ति । कालश्च विहितो 'अमावास्यायाम
1 हरदत्ती ये सारे वा इदमुदाहरणं नास्ति. ह-......सोपादाय तद्वतस्स्वर्गकामस्य दर्शपूर्णमासौ विधीयेते, यावज्जीवशब्देन तस्य जीवनपरिच्छिन्नकालो लक्ष्यते.
For Private and Personal Use Only