________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
परिभाषाभाष्यवृत्त्योः फलान्तरकामिनो वापि विहिता । यदि न दर्शपूर्णमासा
र्था ततो 'दर्शपूर्णमासावालभमानः ' इनि पुरुष'लक्षणा स्यातु, अशुतं फलं च कल्पनीयं ; यथा पाकमारभभाण: काष्टानि सङ्गीयात् इत्युक्ते, काष्ठसङ्ग्रहः. पाकार्थ इति गम्यते, यदि न पाकार्थः काष्ठसङ्ग्रहस्तस्य प्रयोजनान्तरं कल्पनीयम् । आरममाण इति पुरुषलक्षणा स्यात् । अतोन्वारम्भणीया दर्शपूर्णमासार्था । सैवं दर्शपूर्णमासार्था तद्विकृतेस्सौर्यादेरपि चोदकेन प्राप्ता शेषभूना च प्रधानानुष्ठाने चानुष्ठेया । सान्वारम्भणीया विकृतौ . न स्यात् , विकृत्यनुष्टाने नानुष्ठेया । कुतः ? प्रकृतिकालमध्यत्वात्प्रकृतेः कालः प्रकृतिकालः । तस्य कालो विकृतेरपि कालः, प्रकृतिकालमध्यत्वाद्विकृतेः । प्रकृतिकालमध्यवर्तनं वा विकृतेः कथम् ? ' यावज्जीवं दर्शवूर्णमासाभ्यां यजेत ' इति जीवनावच्छिन्नः कालो दर्शपूर्णमासयोः कालवेन विहितः । तत्रैव विकृतीनामुपदेशः ; न ह्यजीवकिश्चित्करोति ; न हि दर्शपूर्णमासौ परिसमाप्य विकृतीनां कालोस्तीति ; अजीवतः कारणाभावात् ; यावज्जीवं दर्शपूर्णमासाभ्यामिति जीवनपरिच्छिन्नकालेन दर्शपूर्णमासौ परिसमाप्येते इति विधेः नान्तरा परिसमाप्यते । अबः प्रकृतिभूतदर्शपूर्णमासयोः कालमध्यवतिन्वं विकृतीनाम् । ननु अकृताऽन्वारम्भणीया कार्यप्रदर्शनेन' कथं विकृतीनामुपकरोतीत्यत्राह-कृता हि तदर्थेन । प्रकृतौ तदर्थेन प्रकृत्यर्थेन कृता ह्यन्वारम्भणीया सा तत्कालमध्यवर्तिनीनां विकृतीनामपि प्रसङ्गादुपकरोतीति न विकृत्यर्थ 'क-सा--पुरुषपदे.
ह-कार्यप्रदानेन.
For Private and Personal Use Only