________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः खण्डः. . १६. क.-जातिभेदे पशुजातिभेदे सौत्रामण्यादौ कुम्भ्यादि भिद्यते, प्रतिपशु कुम्भ्यादिभेदः । पक्तिवैषम्यात्-पक्तिः पाकः तस्य वैषम्यमसमानत्वम् । पक्तिवैषम्यादिति हेतुनिदेशात् एकस्यामपि जातौ बाल्ययौवनस्थविरवशेन यत्र पक्तिवैषम्यं तत्र कुम्भ्यादिभेदः ॥ ____ ह.-'अग्निभ्यः कामाय' इति पञ्च पशव उदाहरणम् । तत्र जातीनां [ तत्राजादीनां ] पक्तिवैषम्याकुम्भ्यादयोपि भिद्यन्ते ॥
१७. के.:-स्विष्टकद्वनस्पतौ वनस्पतियागे या याज्यातस्यां देवतानिगमा देवतासङ्कीर्तनानि स्युः यद्यप्यनानाता देवतानिंगमाः । कुतः ? प्रकृत्युपबन्धात्, प्रकृतौ स्विष्टकृति उपबन्धात् आम्नानात् । दर्शपूर्णमासयोस्स्विष्टकृद्यागे इष्टदेवतासङ्कीर्तनैः कश्चिदुपकारः कल्पितः । स पशोस्विष्टकृद्विकारे वनस्पतियागेपीष्टदेवतानिगमैः कार्यः । प्रकृत्युपबन्धादिति हेतु निर्देशादन्योपि स्विष्टकद्धर्मों द्विरभिघारणादिः कर्तव्यः ॥
१८. क.-दर्शपूर्णमासावारभमाणस्य पुरुषस्यान्वारम्भणीया कर्तव्यत्वेन चोदिता । यदि सा दर्शपूर्णमासावारभमाणेन कर्तव्या स्यात् 'दर्शपूर्णमासावालभमानः' इति श्रुतिवृत्ता; तस्याः फलान्तरं कल्प्यम् । न चासावन्यनिमित्ते ततः
ह-स्विष्टकृद्याज्याविकारे वनस्पती. 'क. सा.-यदि सा दर्शपूर्णमासार्था ततो दर्शपूर्णमासावारभमाणेन कर्तव्या स्यात् । न च दर्शपूर्णमासफलातिरिक्तं फलं स्यात् ।
क-सा--स्य निमित्तवतः.
For Private and Personal Use Only