SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९. परिभाषाभाष्यवृत्त्योः रेर्थवन्तः यथा यूपद्रव्याणि पलाशाद्याम्नातानि विकल्प्यन्ते पशुबन्धे । इतिकरणं दृष्टान्तान्तरप्रदर्शनार्थम्-बीहियववच्च विकल्प इति ॥ १३. क.-यत्रातिदेशप्राप्तानां मन्त्रणां बहुत्वं, कर्मणामरूपत्वं, तत्रादित आरभ्य प्रवृत्तेरन्तादारभ्य लोपः । आश्विने द्विकपाले आद्याभ्यां मन्त्राभ्यां कपालोपधानम् । उत्तरेषां लोपः । तैः कर्म न क्रियते । ऋतव्यमन्त्रैः होत्रियधिष्ण्योपधाने कर्तव्ये, इष्टकानां द्वादशपले, तेषां मन्त्राणां संविभागे च पञ्चमदशमयोद्धिरावृत्तिः, षोडशपक्षे चतुरावृत्तिः कर्तव्या ॥ १४. क.-प्रकृतेः प्रकृत्यङ्गस्य कलप्तक्रमस्य प्रधानप्रयोगवाक्यविहितत्वात् तत्प्राकृतं यथाक्रमं पूर्व प्रयोक्तव्यम् । अपूर्वमक्लप्तक्रमं तुल्यजातीयानामन्ते स्यात् , यथा ‘सोत्र जुहोति' इति सर्वहोमानामन्ते प्राविस्वष्टकृतः ध्रुवाज्यलाभाय ॥ १५. क.-एकजातीयपशुगणे कुम्भीशूलवपाश्रपणीनां तत्रता एकता स्यात् । प्रभुत्वात् समर्थत्वात् । कुम्भी भोण्यादिपाकार्था वृहती स्थाली । शूलो हृदयपाका यष्टिः । वपाश्रपणी वपाश्रपणार्थे यष्टी द्वे । तेषां प्रभुत्वात्तन्त्रता । प्रभुत्वादिति हेतुनिर्देशाद्यावत्सम्भवं तन्त्रत्वम् । केचित् याज्याया अर्धर्च इति च प्रतिपशु बहींषि वपाश्रयण्य इति वचनादेकदैवतेषु तन्त्रत्वमिच्छन्ति ॥ ह-...कृतः समिष्ठयजुषोप्यन्तलाभाय. ह-त्वात् पशुधर्माणां.. ह–वपाश्रपप्यो यष्टयः । तेषां प्रभुत्वात्तन्त्रतेति हेतुवचनं बहुत्वादप्रभुत्वे कुम्भीभे दज्ञापनार्थम् । तथा अनेकेषु गृहेषु दग्धेषु तन्त्रेणैव क्षामवत्यनुष्ठानम् । तथा . मिथस्संसर्गेषु पुत्रजन्मादिषु बहुषु तन्त्रत्वं नैमित्तिकानाम् । For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy