________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः खण्डः. ८. क.-स चाग्निषोडशिनि तद्विकारे च वाजपेये असकीर्तनान्न भवति । साद्यस्वेष सद्यःपरिसमाप्तेरसम्भवाचयनाभावः । सारस्वते सत्रे अनवस्थानान्नानिश्चीयते । अत एतेभ्योन्यत्रोत्तरेषु क्रतुष्वग्निः ॥ ____९. क.-काम्यत इति कामः फलम् । ऋतुफलस्य कामो वर्तमानः ऋतुं प्रयुक्ते, न भूतो न भविष्यन् । न च कामयेत इति विधिः, स्वतस्सिद्धत्वात् । यतः क्रत्वादो वर्तमानः क्रतुं प्रयुङ्क्ते अतस्तत्सङ्कल्पः क्रत्वादौ कर्तव्यः ॥
१०. क.-कामयतेत्यनुवर्तते । क्रतुकामवद्यज्ञाङ्गकामोपि भवति । यज्ञाङ्गादौ वर्तमानो यज्ञाङ्गं प्रयुक्ते । अतो यज्ञाङ्गफले सङ्कल्पस्तदादौ कर्तव्यः ॥
११. क.-यत्राल्पीयांसो मन्त्राः कर्माणि भूयांसि ; यथा काम्यानामिष्टीनां · उभा वामिन्द्रानी' · इन्द्रानी नवातें पुरः' इति याज्यानुवाक्यायुगळमाम्नातम् । ऐन्द्राममेकादशकपालम् । इति षडानातानि । तदागळद्वयं समशः प्रविभज्य कर्माणि च पूर्वेण युगळेन पूर्वाणि त्रीणि कारयेत् , उत्तरैरुतराणि । एवं · विहव्या उपदधाति ' इति विहिता दशमन्त्राः । धिष्ण्येष्टकोपधानकर्माणि बहूनि । तत्र समशः प्रविभज्य पूर्वैः पूर्वाणि कारयेदुत्तरैरुत्तराणि ॥
१२. क.-अमौ चतुर्दशौषधिवपनकर्माणि । ‘या जाता श्रोषधयः' इति वपनार्था मन्त्रा बहवः । तत्रादितो मध्यतोन्ततो वा अव्यवहितैश्चतुर्दशभिर्मन्त्रैः प्रतिमन्त्रं प्रथमेन मन्त्रेण प्रथमवपनं द्वितीयेन द्वितीयमिति । एवं चतुर्दश वपनीन कुर्यात् । अवशिष्टा विकल्पार्थाः प्रयोगान्त
N
For Private and Personal Use Only