________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः ७.क.-सतु चतुस्संस्थो ज्योतिष्टोम' अग्निष्टोमः । उत्तरेषु क्रनुप्वग्निविधानात् तत्र प्रकरणाम्नातोत्तरवेदिः । तत्राहवनीयः प्रणीयते । उत्तरेषु क्रतुषु अनिष्टोमोत्तरकालकार्येषु. साधस्क्रादिभ्योन्यत्र अनिष्ट्रजचोतिष्ट्रदादिविकृतिप्वनारभ्याधीतोनिश्चीयते । चितावाहवनीयप्रणयनम् । तेषूत्तरवेदिरपि लभ्यते । ‘सानिचित्यो भवति पक्षिभ्यां सानिचित्याभ्यां' इति क्वचिनियमविधानादन्यत्रानियम इति केचिदाहुः । ‘उत्तरवेद्यां ह्यग्निश्चीयते ' इत्यनारभ्याधीतोनिरुत्तरवेदिद्वारेण प्रकृतिं गच्छति, यथा सुवदारेण खदिरः । तत्राग्निचयनेन प्रकृताववरूद्धायां बढचवचनात् 'अनि देवानां होता तस्यैष स्वो लोको य उत्तरनाभिः । इति प्रणेयोनिरुत्तरनाभौ प्रतिष्टाप्यः । एवमुत्तरवेद्यन्तःप्रत्यायित मनिचयनं विकृत्यर्थं भविप्यति साप्तदश्यवत् । तदाह-अमिष्टोम उत्तरवेदिरुत्तरेषु ऋतु वाग्निः' इति । तत्रैवानिष्टोमसंस्थे ज्योतिष्टोमे वचनादग्निचयनं भविष्यति । 'अथातोनिमाग्निष्टोमेनानुयज्ञन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेण तं त्रिरात्रेण ' इति । अतः प्रकृतावेवानिचयनोत्तरवेद्योर्विकल्पितयोः प्रकृतिवद्विकृतिप्वपि विकल्पः । अत एवं सर्वत्र विकृतिषु विकल्पप्रसक्तौ · सानिचित्यो भवति । पक्षिभ्यां साग्निचित्याभ्याम् ' इति नियमविधिरुपपद्यते ब्रीहिमयपशुपुरोडाशवत् । द्विरात्रादिष्वमिचयनविधानं औपदेशिकत्वेन गुणकामादिसिद्धयर्थमिति ॥
*इत आरभ्य कपर्दिभाष्यकोशगतो ग्रन्थः हरदत्तवृत्तिकोशग्रन्थात् शब्दतीर्थतश्च
नातिरिच्यते. क्वचिदेव तु वर्णमात्राभेदः. अतः कपर्दिभाष्यमेवात्र गृहीतम्. 1ह-स तु ज्योतिष्टोमः क-सा-प्रस्थापित. ह-त्तरवेद्यां तत्र प्रच्यावित. ह-एवं.
For Private and Personal Use Only