________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
परिभाषाभाष्यवृत्त्योः हानसामिसदृशो लौकिकव्य'पदेशं लभते । समारोहणावरोहणविधानात् , 'तं जाननन आरोह , · उपावरोह जातवेदः' इति मन्त्रलिङ्गाच्च देवनाभूनोनिः प्रत्यक्षदृश्यमङ्गारमाग्निं परित्यज्यारण्योरारोहति मथ्यमानमगारमवरोहतीति गम्यते । तथा प्रत्यक्षात्प्रणीतानेः देवतात्मकोग्निरपवृत्ते कमणि परिसमाप्ते स्वयोनि गार्हपत्यादि गच्छति, न परप्रयुक्ताग्न्युपजीविकर्मापवर्गे । यदर्थे प्रणीत एतस्मिन्नपवृत्त इत्युक्तम् । यथा दर्शपूर्णमासार्थ प्रणीतोनिस्तस्मिन्नमिहोत्रापवर्गेपि नापवृत्तः । यदर्थ प्रणीतस्तदपवर्गों यावत्तावत्तिष्टति, 'अपवृत्ते कर्मणि लौकिकः' इत्यूक्तत्वात् । आहवनीयादिसाध्यकमार्थमेवानिप्रणयनम् । न लौकिकाग्निसाध्यदहनपचनार्थ प्रणयेत्। तस्माद्विहितकर्मार्थमेवाग्निप्रणयनमिति । यथा लौकिकानेरेव दक्षिणाग्नेः प्रणयनम् गार्हपत्यादाहवनीयस्याहवनीयादौत्तरवेदिकस्य आनीध्रस्य शामित्रस्य च दक्षिणानेर्महापितृयज्ञार्थ त्रैय्यम्बकहोमार्थं चेति । एवमादि तत्र तत्र द्रष्टव्यम् । यत्र प्रणीतस्यानेः पुनः प्रक्षेपविधिस्तत्र कमीपवर्गे न लौकिकः, यथा पशुपर्यग्निकरणार्थस्यानेः प्रत्यपिसृज्योल्मुकमिति । यस्य प्रयोजनं नास्ति, न तस्य प्रणयनं, यथा दक्षिणागेर्दर्शपूर्णमासार्थे होमे सारस्वते ॥
इति चतुर्थः खण्डः,
समाप्ते च परिमाषाभाष्यवृत्ती. क-सा. लौकिकोपि उ. - ह-यत्र प्रणीतस्याग्नेः कर्मचोदना तत्र अपवृत्ते कर्मणि न लौकिको भवति. यथापर्यग्निकरणार्थस्याग्नेः प्रत्यपिसृज्योल्मुकमिति तस्य प्रतिनयनं कर्तव्यम् .
For Private and Personal Use Only