________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः खण्ड:. प्तिः । अत: प्रनिनिधिविषय एवायं ‘अयज्ञिया वै माषा वरकाः कोद्रवाः' इत्येवावधारितम् । अतो यदापि वरक. कोद्रवयोरपचरितद्रव्यमादृश्यं नदापि प्रतिषेधात्ताभ्यां प्रतिनिधिनिवर्तने । .अन्यदेव द्रव्यमीषत्सदृशमप्युपादेयमित्यर्थः । एवं वात्र- प्रतिषिध्यत इति प्रतिषेधः इति कर्मसाधननिर्देशोयं; 'खण्डां कृष्णां लक्षणां च नोपदध्यातू । इति प्रतिषिदत्वात्खण्डादेः प्रतिनिधिनिवर्तने । मुख्येष्टकाभावे खण्डादीनां सम्भवे ताभिरेव चेतव्यं, नाश्मना प्रतिनिहितेन चेतव्यमित्यर्थः । अशृङ्गस्य पशोश्छिन्नकर्णस्यान्धस्य भनदन्तस्य वापन्नदन्तस्य वा कूटादियुक्तस्य सम्भवे मुख्यपशोरसम्भवे कृत्वा प्रायश्चित्तं कूटादीनामेवालम्भः । न जात्यन्तरस्य प्रतिनिहितस्येति ॥
२. क.-त्रिभिहेतुभिः प्रकृतिपदार्थो निवर्तते । प्रत्याम्नानं कुशस्थाने शरमयं बर्हिः । प्रतिषेधो ‘नार्षेयं वृणीते' इत्यादौ । अर्थलोपात् चरौं पेषणादीनि । चकारादन्यदपि त्रयं निवृत्तिकारणं, नियमः परिसङ्ख्या भूतोपदेश इति । यथा-व्रीहियवयोर्विकल्पेन प्राप्तयोः, 'व्रीहिमयः पशुपुरोडाशो भवति' इति नियमाद्यवत्यागः । गृहमेधीये 'आज्यभागौ यजति' इति परिसङ्ख्यानात् प्राप्तप्रयाजादेर्निवृत्तिः । ‘खलेवाली यूपः' इति छिन्ननिखातखलेवालीविधानाच्छेदनादेर्निवृत्तिः ॥
ह.-प्रत्यानानं प्रकृतिप्राप्तस्यार्थस्य स्थाने अर्थान्तरोपदेशः । प्रतिषेधः ‘नार्षेयं वृणीते न होतारम् ' इति । अर्थः
For Private and Personal Use Only