SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ परिभाषाभाष्यवृत्त्योः प्रयोजनं तदसम्भवात् । 'शरमयं बर्हिः' इति प्रत्याम्नानस्योदाहरणम् । अर्थलोपाच्चरौ पेषणादिनिवृत्तिः । अपरेअन्यत्त्रयं निवृत्तिकारणमाहुः ; नियमः परिसख्यानं भूतोपदेश इति । यथा-विकल्पेन प्रीहियवयोः 'व्रीहिमयः पुरोडाशः' इति पुनर्नियमविधानाद्यवानिवृत्तिः । गृहमेधीये आज्यभागादिषु प्राप्तेषु पुनराज्यभागाविधानं परिसङ्ख्यायते प्रयाजादिनिवृत्त्यर्थम् । 'खलेवाली यूपः' इति यूपकार्ये खलेवालीविधानाच्छेदनादिनिवृत्तिः । त्रिभिरिति निवृत्तिकारणनियमादेव तेषामपि तत्रैवान्तर्भावः । पशुपुरोडाशे प्रत्यानानादेव निवृत्तिः । गृहमेधीये पुनर्विहितपदार्थकार्येणैव कथंचिदङ्गपूर्तेः अर्थलोपादेवेतरनिवृत्तिः । 'छिन्नं तष्टमुच्छ्रितं निखातं च काष्ठं खलेवाली' इति तत्रार्थलोपादेव छेदनादीनां निवृत्तिः ॥ ३. क.-एकेनाहा येषु सुत्यापरिसमाप्तिस्त एकाहाः । तेषामनिष्टोमसंस्थो ज्योतिष्टोमः प्रकृतिः । प्रकृतेर्धर्मान् कार्यमुखेन विकृतिगृह्णाति ॥ _ ह.-एकेनाह्रा सुत्यापरिसमाप्तिः येषां त एकाहाः । तेषामनिष्टोमसंस्था ज्योतिष्टोमः प्रकृतिः । स एव उक्थ्यादिसंस्थानां विकृतीनां प्रकृतिः । प्रकृतिधर्मान्कार्यमुखेनैव विकृतिगृह्णाति ॥ ४. क.-इहाहश्शब्दो रात्रिशब्दश्च सोमयागवचनः । द्वादशाहानि यागा यस्य स द्वादशाहः । अह्रां यागानां For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy