________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः
अथ चतुर्थः खण्डः, १. क-स्वामिनो यजमानस्य पत्न्याश्च, अनेराहवीयादेर्देवतायाः, कर्मणः क्रियायाः, एतेषां प्रतिषेधादेव प्रतिनिधिनास्ति । देवतायां शब्दात्मकत्वमपरो हेतुः ॥
ह.-पूर्वोक्तस्य प्रतिनिधेरपवादः प्रतिपाद्यते । स्वामिनो यजमानस्य पल्या वा । तत्राङ्गत्वा भावा द्यजमानस्य पनीमरणे पत्न्यन्तरोपादानेन वा अपत्नीकत्वेन वा कर्मणः परिसमाप्तिाङ्गीक्रियते । का वार्ता द्विपत्नीके प्रयोगे अन्यतरमरणे तत्र परिसमाप्तिमेव न्यायविदो मन्यन्ते, एकयापि पन्या सहाधिकारसिद्धेः, पत्नीकार्यनि र वृत्तेश्च । अनेराहवनीयादेः । तत्र आहवनीयादेरभावे नारन्यन्तरं प्रतिनिधातव्यम् । नाप्युदके वा भूमौ वा होमः । अननष्ठानमेव मन्यन्ते । एवं देवतापि न प्रतिनिधेया । शब्दात् मन्त्रात् । न मन्त्रे च विस्मृते मन्त्रान्तरं प्रतिनिधेयम् । अमन्त्रकमेव कर्मानुष्ठीयते । कर्मणः प्रयाजादेः । न प्रयाजादेरसम्भवे प्रोक्षणानुष्ठानं प्रतिनिधिः । प्रतिषेधात् 'अयज्ञिया वै माषा वरकाः कोद्रवाच ' इति । न माषादीनां यज्ञे विनियुक्तानां प्रतिषेधोयं, माषादीनां विनियोगाभावात् । न चाविहितद्रव्यतया यज्ञेषु प्राप्तम्य माषादोर्नषेधस्सम्भवति, सर्वत्र यागहोमयोस्सामान्यतो विशेषतो वा आज्यादेर्विनियुक्तत्वात् । सम्भवति माषादेस्सदृशस्य विनियुक्तस्यासम्भवे माषादेः प्रतिनिधित्वेन प्रा
घ--तत्राशङ्का.
For Private and Personal Use Only