________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः, हीणां मेध' इति चाविकारेण प्रयुज्यते । सान्नाय्यप्रतिनिधित्वेन ऐन्द्रो माहेन्द्रो वा पुरोडाशो नियम्यते तदापि मुख्यधर्मत्वेन स्त्रुवेणैवावदानं पुरोडाशस्य न हस्तेन, प्रतिनिधेर्मुख्यधर्मप्रातः ॥ ___५३. क.-द्रव्यस्यैकदेशनाशे यावदुक्तपरिमाणाद्यभावेपि अवशिष्टेनैव समानुयात् । यथा कूर्मप्रतिकृतिपुरोडाशे 'चतुरो मुष्टीन् । इत्यादिपरिमाणन्यूनतायामपि मुख्येनैव समापयेत् ॥ ___ ह.-मात्रा परिमाणम् । तदपचारः परिमाणाभावः । स्कन्नावशिष्टेषु ब्रीहिषु अश्वशफमात्रस्य पर्याप्तेषु स्कन्नशेषेणैव समानुयादित्यर्थः । यदा तु द्विरवदानमात्रस्य पर्याप्तास्तदा लौकिका ब्रीहयस्स्कन्नशिष्टेषु प्रक्षेप्तव्याः । वीह्युपादानकाले यस्याश्वशफमात्रा ब्रीहयो न लभ्यन्ने तस्यापि मात्रापचारेणव परिसमाप्तिः । यस्य तु नीवारा अश्वशफमात्रपर्याप्तास्सन्ति ब्रीहयो द्वयवदानमात्रपर्याप्तास्तत्र बीहिभिर्नीवारान् संसृज्य निर्वापः कर्तव्यः', यावत्सम्भवं मुख्यपरित्यागे कारणाभावात् मुख्यावयवलाभकृतत्वाच प्रतिनिधेः॥
इति तृतीयः खण्डः
ग-यदा अवदानमात्रस्यापर्याप्ताः ब्रीहीनीवारांश्च संसृज्य निर्वापः कर्तव्यः [इति ‘यदा तु......कर्तव्यः' इत्यस्य स्थाने पाठः.]
For Private and Personal Use Only