________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः पूर्वाधिकारापगमेपि प्रक्रमनिमिनाधिकारत्वनावश्यपरिसमाप्यत्वात् । यत्र प्रतिनिध्युपादानार्थं प्रवृत्तस्ग मुख्यमेव द्रव्यं लभ्यते तत्र तन्मुख्यमेवोपादेयम् । यंत्र प्रतिनिधि समादाय केषु चित्संस्कारेष्वनुष्टितेषु मुख्यलाभः तत्र प्रतिनिधिनैव समाप्यम् । यत्र सट्टशद्रव्यस्य प्रतिनिहितस्य नाशः तत्र मुख्यसदृशमेवोपादद्यात् , न प्रतिनिहितसदृशम् । सोमापचारे प्रतिनिधिष्वपि नष्टेषु सोमसम्भवे सोम एवोपादेयः, तदसम्भवे सदृश एवेति । यत्र सदृशस्य प्रतिनिहितस्य नाशस्तत्र मुख्यसद्भावे मुख्यमेवोपादद्यात् , न प्रतिमिहितस्य सदृशम् । यत्र सट्टशबुद्धिरुपजायते, तस्यैव प्रतिनिधित्वेनोपादानम् ॥
५२. क.-पदलाभे यत्स्थाने यस्सट्टशतर: प्रतिनिधीयते, स तद्धर्मा स्यात् । व्रीयभावे नीवारः प्रतिनिधीयमानो ब्रीहिधर्मा स्यात् । व्रीहिपदस्यापचार: *नीवारशब्दोहश्च । यत्र वाचनिकः प्रतिनिधिस्तत्र नोहः यथा पूतीकेषु । यत्र विहिनवीयभावे प्रतिनिधिनीवारमुपादाय प्रयोगप्रक्रान्तौ विहितव्रीहयोपि लभ्यन्ते तत्र व्रीहित्यागेनैव प्रयोगस्समापनीयः । यत्रोपात्तप्रतिनिधिरपि न दृष्टः नीवारा ब्रीहयोपि लभ्यन्ते तत्र प्रतिनिधिपरित्यागेन मुख्य एवोपादेयः । सर्वत्र विहितालाभकृतवैगुण्यपरिहारार्थ प्रायश्चित्तमावश्यकम् ॥ ___ ह.-पद्धर्म मुख्यद्रव्यं प्रतिनिहितमपि तद्धर्मकमित्यर्थः । अतः प्रोक्षणादयः प्रतिनिहितेषु नीवारेषु क्रियन्ते । 'बी. *इत आरम्य ४खण्डे ६सूत्रपर्यन्तं कपर्दिभाष्यकोशे ग्रन्थलोपदर्शनात् तत्स्था__ ने कपर्दिसारग्रन्थो योजितः.
For Private and Personal Use Only