________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः. नोह्यन्ले, संज्ञप्तपशुवियुक्तस्य चक्षुषस्तेजसोभिधानात् । येषां शब्दानामुभयथा प्रवृत्तिः लोके दृश्यते 'शोभनमेषां चक्षुः शोभनान्येषां चलूषि' इति ते संसर्गिण इत्यपरे । यत्र सगुणा देवता चोद्यते तत्र गुणशब्दोप्यूहे प्रक्षेप्तव्यः, यथा 'अमये शुचये , इति । सगुणद्रव्यचोदनायां तु गुणशब्दस्य प्रक्षेपो नेव्यते । ततः कृष्णग्रीवशब्दो वपासंप्रैषादिषु न प्रयुज्यते । तथा दक्षिणायां गोशब्द एव प्रयुज्यते, न मिथुनप्रथमजादिपराशब्दाः प्रक्षेप्तव्याः ॥ __५१. क-नित्ये नैमित्तिके काम्चे च प्रयोगे प्रक्रान्ते शिष्टाभावे उपदिष्टस्यालामे सामान्यात् सादृश्यात् तत्सट्टशतरं प्रतिनिधिमुपादाय स प्रयोगः परिसमापनीयः । विहितालाभे तत्सदृशस्तकार्यकरश्च प्रतिनिधिरुपात्तव्यः । चवर्थेपि पयस्यलब्धे श्वैत्यान्न शोपादानमिप्यते । सुसदृशाभावे अप्रतिषिद्धमीषत्सदृशमपि प्रनिनिधातव्यम् । मौने चरौ प्रक्रान्ते तदलाभे 'अयज्ञिया वै भाषा:' इति प्रतिषेधान्न माषा: प्रतिनिधातव्याः ॥
ह.-शिष्टं विहितं द्रव्यं ब्रीद्यादयः तेषामभावे द्रव्यान्तरं नीवारादि प्रतिनिधाय नित्यं नैमित्तिकं च कर्म प्रयोक्तव्यम् । कस्मात् ? सामान्यात् । यस्माद्विहितद्रव्यस्य प्रतिनिधीयमानद्रव्यस्य च सादृश्यं शक्यते सम्पादयितुं तस्माच्छिष्टाभावे सदृशप्रतिनिध्युपादाने मुख्यद्रव्यावयवभूता एवोपात्ता भवेयुरिति प्रतिनिधिः शास्त्रार्थः । काम्यमपि कर्म प्रक्रान्तं प्रतिनिधिना समापनीयम् , प्रक्रान्तस्य कर्मणः
For Private and Personal Use Only