________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्योः योस्स्थानेऽन्यद्वयमुपदिश्यते, यथा 'विश्वेभ्यो देवेभ्यो जुटम्' इति । क्वचिदत्यधिकोपदेशः, यथा 'नुवं च तुचश्च' इति । क्वचित्प्राकृतार्थाभावः, तत्स्थाने कस्य चिदुपदेशो, यथा 'प्रोक्षणीरासादय । नुवं च सुचश्च' इति । यथा सौर्यचरौ पिष्टमन्त्रा एव लुप्यन्ते । अर्थवादवर्जम्अर्थवादान् व्याख्यास्यति ॥
___ ह.-यथा यथा अर्थः यथार्थम् । यथा अन्वारम्भणीयादक्षिणायां ब्रह्माणो ब्रह्माणौ स्थो ब्रह्मणे वां मा मा हिसिष्टमहुतौ मह्यं शिवौ भवतम् । इति । वनमन्त्रस्तु नोह्यते, द्रव्यस्यानेकत्वेपि विभागस्यैकत्वात् । ‘इयं स्थाली' इति तु लुप्यते , स्थाल्यभावान् । 'सहस्रधारावुत्सावक्षीयमाणौ तौ दधनुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां मिथुनाभ्यामतितराणि मृत्युम्' इति । ब्राह्मणा इमौ गावौ, इति । 'रुद्राय गाम् ' इत्यचूहेन मन्त्रप्रतिग्रहः, प्रकृत्यर्थत्वान्मन्त्रस्य । पत्नीपदस्य जात्यभिधानादनूहः । द्विपशुप्रयोगे 'पशू हव्यं' इत्यूयते । 'आज्यं दधि स्थ' इत्यूयते , न पुनः · आज्यदधिनी स्थ ' इति । 'आज्येन दधो देहि' इति सम्प्रेषः, दधिसंस्कारार्थत्वात् । असंस्कारपक्षे प्रकृतिवत् । तथा 'अदिती स्थोच्छिद्रपते' इति संस्कारपक्षे । 'तेजसी स्थस्तेजोनु प्रेतं ' 'अमेजिहे स्थस्सुभुवो देवानां धाम्नेधाम्ने देवेभ्यो यजुषे यजुषे भवतम् ' । 'आज्यं दधि स्थः सत्यायुषी स्थः सत्येन वामभिधारयामि' 'तयोवा भक्षीय' इत्यादि । 'अद्भिराज्यं दध्याज्येन दनाप:......संविदा
For Private and Personal Use Only