________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः. इति शमीशाखायाम् । “वीहीणां मेध सुमनस्यमानः' इति यवमये । यत्र द्वयोस्समवेतयोरेवैकवचनं तत्रासौ मन्त्र: प्रतिहविरावर्तते, यथा · यज्ञोसि सर्वत: श्रितः' इति, यथा 'इषे त्वेति बर्हिषी आदत्त' इति । प्रकृतिग्रहणस्योपलक्षणत्वात् । उदुस्र तिष्ट ' इन्येवमादीनां स्त्रीपशौ द्विप्रभृतिषु चानूहेनैव प्रवृत्तिस्सिदा । सारस्वते तु द्वादशकपाले सरस्वतो हुतामिति' न प्रवर्तते लिङ्गविशिष्टस्यैवोपदिष्टत्वातू । यत्र तु प्रकृतावलिङ्गसलिङ्गो, यथा तैत्तिरीयाणामेकस्मिन्नुपरवे 'वैष्णवान् खनामि' इति नहुवचनान्तो मन्त्रः, मैत्रावरु[य] णीयानां एकवदुपरवमन्त्रान् । इत्येकवचनान्तो मन्त्रः, तत्र एकवचनान्त एव विकृतावतिदिश्यते । समर्थवचने सम्भवत्यसमर्थस्यानतिदेशादित्योपदशिकाः ॥
४९. क.-यदीया धर्माः कार्यमुखेन यस्मिन्नतिदिश्यन्ते सा तस्य विकृतिः । प्रकृतौ मन्त्रा यंयमर्थ प्रकाश्य प्रधानमुपकृतवन्त: यदि विकृतावपि तंतमेव प्रकाश्योपकुयुः न तत्र तेषामूहः । यत्र तु प्राकृतप्रकाश्याभाव: तत्स्थाने च वैकृतं प्रकाश्यान्तरमुपदिश्यते अन्यत् प्राकृताधिकं वोपदिश्यते तद्विकृतो यथार्थ यथा यथार्थवन्तो मन्त्रास्तथा तथा ऊह: मन्त्रसन्नामः कर्तव्यः । यत्रानातप्रत्ययार्थस्थाने प्रत्ययार्थान्तरमुपदिश्यते तत्र प्रत्ययार्थस्योहः, यथा 'येन येनादधाति । क्वचित्प्रकृत्यर्थस्थाने प्रकृत्यर्थान्नरोपदेशः, यथा उसस्य हविषः' इति । क्वचिव
ग-सरस्वतोहमिति.
For Private and Personal Use Only