________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः
खादिरो न लभ्यते समर्थाः कदरादय एवोपादीयेरन् । नत्वन्याभयापेक्षाः खदिराः ||
४८. क. -अध्ययनविव्यधीतानां मन्त्रवाक्यानां स्वाध्यायपाठावधृतस्त्ररूपाणामर्थवशाद्रूपान्तरकरणमूहः । स प्रकृतौ न विद्यते न क्रियते । प्रकृतौ मन्त्रा पत्राभिधातुं समर्था: तत्र न । यथा ' अग्नये जुष्टमभिघारयामि इत्याधेयपुराडा - शाभिघारणे, नाग्रीषोमीये । तत्रामन्त्रक: प्रयोगः, नानीपो माभ्यामित्यूहः ||
ह. - प्रकृतौ लिङ्गसङ्ख्याविरोधेपि नोह्यते । प्रकृतिग्रहणं चात्रोपदेशोपलक्षणार्थम् । उपदिष्टा मन्त्रानोह्यन्ते, अतिदिष्टा एवोह्यन्ते इत्यर्थः । ' चितस्स्थ' इत्युदाहरणम् । तत्र बहुवचनान्तेन मन्त्रेणैकं कपालमुपधीयते । 'उखे उपदधाम्यहम् ' इत्येका उखा उपधीयते । ' अवदानानि ते प्रत्यवदास्यामि' इति द्वयोरप्यवदानयोनह्यते । विकृतावप्येषामनूह एव, जात्यभिधानात् । उक्तं चाश्वलायनेन सर्वेषु यजुर्नि - गदेषु । प्रकृतो समर्थनिगमेषु' इति । अवदानानीति कस्माज्जमदग्न्यर्थो न भवति । सन्निहितानि त्रीण्यवदानानीति । अवदानशब्दः द्वयोरप्यवदानयोस्तावदविरुद्धः । केवलं सङ्ख्यागुणो विरुद्धचते । न हि गुणानुरोधेन प्रधानशब्दस्य निवृत्तिरुपपद्यते । यत्र तु प्रधानशब्द एव विरुचते तत्र निवर्तते मन्त्रः, यथा ' इमौ पर्णं च दर्भ च '
घ- सन्निहितस्य.
For Private and Personal Use Only
4