________________
Shri Mahavir Jain Aradhana Kendra
अन्योक्ति
॥ ६॥
1000000[0]-04
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्मिन् जीवहितावहे जलधरे दानैकनिष्ठे पयः- पूरैः पूर्णमिलातलं रचयितुं बद्धादरे सत्यपि ॥ रे | चंडानिल यद्दिशोदिशमयं दूरं त्वया क्षिप्यते । प्राणिप्रौढमनोरथैः सह तदा क्षुद्र क्षयं प्राप्नुहि ॥ ३० ॥ तापयसि जगदशेषं । तत्ते चरितं न सुंदरं शूर ॥ भुवनप्रकाशको य-मित्रमसि त्वं जगच्चक्षुः ॥ ३१ ॥ अंभोर मधुनां जनाय नो य-इत्से तदेष भवतावसरो न लभ्यः ॥ काले प्रचंडपवनप्रहतस्य यस्मान्न त्वं न चांबुकणिकाप्युपकारकृते ॥ ३२ ॥ श्रीपुष्करावर्तमुखा विदध्यु - स्त्वत्पूर्वजाः सत्वरमंबु, वृष्टिं ॥ तद्वंशजन्माप्यधुना विलंब्य । दत्सेंबु धाराधर तन्न युक्तं ॥ ३३ ॥ अयि सितच्छदसुंदर मा कृथाः । खलबलाहकपंक्तिगतः सखे ॥ निजगुणान् प्रकटान् यदयं गणा । न गुणविद्विगुणो गुणमत्सरी ॥ ३४ ॥ नो वारिवाह पयसः स्पृहयालुतास्य । त्वत्तस्तु तुष्यति परं मधुरोक्तिभिर्यः ॥ कस्ते त्वदेकशरणं शिखिनं वयस्यं । यद्गर्जितैरपि विनोदयितुं विलंबः ॥ ३५ ॥ रे रे कुरंगवर निर्झरनीरधारा-माकंठमापिब सखे खलु संप्रति त्वं । एषापि दुर्लभतरा पुरतः प्रसर्प-त्युष्णे खले मरुति यत् क्व पयोलवोऽपि ॥ ३६ ॥ पश्यन् वक्रदृशा परस्य चरितं धूर्तावलीग्रामणीः । काकस्त्वं कपटी पशून् वृणवतश्चंचुप्रहारैस्तुदन ॥
For Private and Personal Use Only
回]
शतकम्
॥ ६॥