________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्ति
शतकम्
| DIODEHDHEDEODE-ABD[[D]INKEDINE
मा चतुरचातक चाटुवाचा ॥ अस्मावृथोन्नतिमतस्तव नास्ति सिद्धि-निस्सार एष भवतो विफलः | प्रयासः॥ २४ ॥ ज्ञात्वा भवंतममलं परिशीलनाय । प्राप्ताः सरोवर वयं खलु राजहंसाः ॥ प्रादुःकृतं च कलुषं प्रथमं त्वयांबु । सेव्यं सरः सहजनिर्मलमानसं नः ॥ २५ ॥ येषामंकतले चिराय विलुठन् बालोऽपि वृद्धोऽभवः । स्वादस्वादमुदारपल्लवदलश्रेणीरियद्वासरान् ॥ यस्याः स्वादुपयःप्रवाहपटलैः क्रीडामकार्षीः करिन् । मनस्तानथ पादपांश्च सरितः कूलं न किं लजसे ॥ २६ ॥ रे रे बलाहक मनोज्ञमराल| माला-मध्याधिवासकतया बुबुधे जनस्त्वां ॥ हंसं ततः स्मयभरं ननु मा कृथास्त्वं । शोभानिदानमिद. मीयगुणानुभावः ॥ २७॥
निश्शेषेषु सरस्सु शैवलमिलजंबालजालं जलं । पर्यन्यैः सुकुमारपंकजवनं निर्मूलमुन्मूलितं ॥ आधारस्त्वमथैव मानससरः संसेव्यमामादृशा-मेकं पंकजपेशलं न हि ततो धार्य त्वया शैवलं ॥ २८ ॥ बाह्याडंबरधारिणः परिमलभ्रष्टान् प्रफुल्लानिमा-नुवीक्ष्य प्रसवांश्च शामलितरोः श्रीराजहंसोत्तम ॥ नीरक्षीरविवेचकोऽपि निपुणप्रष्टोऽपि पद्माशया । भ्रांतस्त्वं तमभित्रजन्नसि तदा शिक्षाथ केषामिह ॥ २९ ॥
DEHRADDEDPHO
For Private and Personal Use Only