________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
अनेकान्तवादप्रवेशः स्वभावेन विजातीयेभ्यो व्यावृत्तः, अन्येन च सजातीयेभ्य' इति वक्तुं युज्यते, अनेकधर्मात्मकवस्तुप्रसङ्गाद् इति ।।
स्यादेवम् शब्दो हि विकल्पजन्मा विकल्पहेतुश्च वर्त्तते; उक्तं च
"विकल्पयोनयः शब्दाः, विकल्पाः शब्दयोनयः'
इति । ततश्चासौ शब्दो यथाभूतादेव वक्तृविकल्पादुत्पद्यते तथाभूतस्यैव श्रोतृविकल्पस्य जनकः, इति, एतावतांशेन तत्र सङ्केतः, इति प्रतिपाद्यते, न पुनः शृङ्गग्राहिकया क्रियते । तथा चतैमिरिकद्वयद्विचन्द्रप्रतिपादनं न्याय एवावितथशब्दार्थव्यवहारज्ञैरनल्पधीधनैः प्रतिपादितः । उक्तं चरूपान्तरं विकल्पे यदुभयोः प्रतिभासते । सत्यर्थे तंत्र सङ्केतः एकत्वाध्यवसायतः ।। १ ॥
१. विकल्पेभ्यः । २. विकल्पोऽपि स्वसंवित्तौ वस्तु । ३. अथैवं मन्यसे । ४. विकल्पबुद्धिप्रतिभासपक्षेत्याह-जन... विकल्पकारणः । ५. घटाद्यपोहप्रतिभासिनः । ६. बाजाङ्कुरनीत्या । ७. पृच्छति । ८. स्वलक्षणादन्यत् सामान्यलक्षणाख्यम् । ९. वक्तृश्रोत्रोः । १०. सति विद्यमानेऽर्थे ऽपोहाश्रये स्वलक्षणे इत्यर्थः । ११. तत्र सङ्केत... न्यसङ्केत्य इत्यर्थः । १२. क्वेत्याह-एकत्वाध्यवसायतः । विकल्पान्तरस्यैकत्वाध्यवसायेनेत्यर्थः ।
For Private and Personal Use Only