________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
७१ एतदघटमानकम्, विकल्पेऽपि सङ्केतस्य कर्तुमशक्यत्वात, तस्याप्युत्पत्त्यनन्तरापवर्गित्वात् ; तथाहि-तस्मिन्नपि सङ्केतविधिरनुत्पन्ने वा क्रियते ? उत्पन्ने वा ? विनष्टे वा ? इति विकल्पाः । न तावदनुत्पन्ने, असत्त्वात् । नाप्युत्पन्ने, तस्योत्पादसमन्तरमेव विगमात्; क्षणस्थितिधर्मणि च सङ्केतस्य कर्तुमशक्यत्वात् । नापि विनष्टे, विनष्टस्यासत्त्वात् ।
स्यादेतद्, यदविकल्पव्यावृत्तं विकल्परूपं सकलविकल्पसाधारणम्, तत्र सङ्केतः, इति ।
एतदपि असमीक्षिताभिधानम्, सकलविकल्पसाधारणस्यासत्त्वाद् अविकल्पेभ्य इव सर्वथा सर्वविकल्पानामेवं मिथोऽपि व्यावृत्तेः । न च 'अन्येन
१. स्वलक्षणेऽपि विकल्पो ह्ययमपोहः, स च त्रिधा एकस्तावव्यावृत्तम् स्वलक्षणमेव, अन्यव्यवच्छेदमात्रं द्वितीयः, विकल्पबुद्धिप्रतिभासस्तु तृतीयः, तत्र प्रथमपक्षाश्रयेणाहविकल्पेऽपीत्यादि । २. स्वलक्षणरुपविकल्पस्य । ३. विनाशित्वात् । ४. अन्यव्यवच्छेद...कृत्याह । ५. निर्विकल्प । ६. उक्तञ्च धर्मकीर्त्तिना अर्थानां घटादीनां यच्च सामान्यव्यावृत्तिलक्षणं, यनिष्ठाश्च इमे शब्दास्तस्य रुपं न किञ्चनेति, निःस्वभावत्वसिद्धिस्तुच्छत्वसिद्धिरसत्त्वसिद्धिरिति यावत् । ७. ...सर्वेऽपि विकल्पा अविकल्पेभ्योऽत्यन्तव्यावृत्ता एवं मिथोऽपि, सोऽपि हि स्वलक्षणानि सजातीयविजातीयव्यावृत्तानीति कृत्वा विजातीयेभ्यो विकल्पेभ्यः ।
For Private and Personal Use Only