________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः अथापरः, इति, अप्रतिपन्नयोश्चैकीकरणमयुक्तम्, अतिप्रसङ्गात्; तथाहि-अप्रतिपन्नेनापि विवक्षितेनैव दृश्येनैकीकरोति, न दृश्यान्तरेण, इति किमत्र नियामकम् ? ।
स्यादेतद्, असौ तत्समानजातीयदृश्यसंवेदनाहितवासनाप्रकोपप्रबोधितस्वबीजजन्मा विकल्पः, इति; अतो 'न दृश्यान्तरेण' इत्येतदप्यसङ्गतम्, दृश्यसंवेदनाहितवासनाप्रकोपस्य तत्प्रबोधाक्षमत्वाद्, इति ।
एतदावेदितं प्राग, अतो नेह प्रयत्नः, इति; अलं विस्तरण ।
यच्चोक्तम्-'सङ्केतवशाच्च शब्दात्प्रवृत्तिः, तस्य च विकल्पमन्तरेणान्यत्र कर्तुमशक्यत्वात्' इति;
१. अप्रतिपद्यैकीकुर्यादित्ययं पक्षः । २. भेदेनागृहीतयोः। ३. भेदेनागृहीतेनापि । ४. घटेन । ५. विकल्प्यमर्थ घटादिस्वलक्षणेन । ६. अप्रतिपन्नत्वाविशेषात् । ७. तस्य तदानीं प्रवृत्तिविषयस्य घटस्वलक्षणस्य यः सजातीयो दृश्यो घटस्वलक्षणान्तरं तस्य यत्सङ्केतग्रहणादिकाले संवेदनं तेन यश्चाहितः संस्कारविशेषस्तेनोद्बोधितविकल्पस्य यत् स्वं बीजं शब्दज्ञानं तज्जन्मा । ८. न तु पटादिस्वलक्षणेनैकीकरोति । ९. विकल्प । १०. सत्त्वासत्त्वाधिकारे स्वलक्षणानुभवाहितसंस्कारात् तजन्मेति चेत्, न, संस्कारस्यापि स्वलक्षणेतररुपानतिक्रमादित्यादिना निवेदितम् । ११. अपोहं ।
For Private and Personal Use Only