________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
७३ यादृशाद्यः समुत्पन्नः स भवत्येव कारणं । तादृग्विधविकल्पस्य ध्वनिः सङ्केतसंस्थितिः ॥२॥ किमेतदिति सङ्केत्य इतरोप्येवमित्यदः । न कल्पयति यावद्धीस्तावन्न समयोद्भवः ।।३ ॥ वक्तुः श्रोतुश्च तुल्याभे बुद्धी तेनैकगोचरे । तत्त्वेन बहिरर्थोऽस्ति न कश्चिच्छब्दगोचरः ।।४॥ स्वबुद्धिप्रतिभासस्य संवित्तावपि जायते । बहिरर्थग्रहे मानस्तुल्यतैमिरबुद्धिवत् ।। ५ ।।
१. तत्किं तत्र रूपान्तरे शृङ्गग्राहिकया सङ्केतः स्यानेत्याह-यादृशादित्यादि, विकल्पात् । २. श्रोतारमधिकृत्य तादृशस्यैव विकल्पस्य निमित्तं स्यात् शब्दः । ३. यदा हि यादृशाद्विकल्पाद्यः शब्द उत्पन्नः स तादृशमेवापरं विकल्पं जनयति तदा ते सदृशा विकल्पा अनेके तस्यैकस्य शब्दस्याभिधेया इत्यायातमिति चेतसि निधायोक्तवान् सङ्केतस्थितिरियमेव । ४. अनन्तरश्लोकोक्तमेव दृढयतिकिमेतदित्यादिना । ५. बुद्धिसत्कं रुपमधिकृत्य किमेतदित्येवं सङ्केत्यः पुमान् इतरोऽपि सङ्केतक एवमित्यादि एतन्न विकल्पयति यावत्तावन्न समयोद्भवो न सङ्केतजन्म । यत एवं तेन कारणेन वक्तुः श्रोतुश्च द्वयोरपि समानाकारे बुद्धी एकगोचरे अपोहार्षापेक्षया । ६. परमार्थेन न कश्चिद्वहिरर्थः शब्दगोचरोऽस्ति । ७. कथं बाह्येऽभिमानः ?
For Private and Personal Use Only