________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
अनेकान्तवादप्रवेशः एतदप्ययुक्तम्, क्वचिद् वक्तृविकल्पसदृशश्रोतृविकल्पासम्भवाद्, एकान्तक्षणिकवादिनो जन्यजनकभावानुपपत्तेश्च; इति वक्ष्यामः ।
एवमेकान्ताभिलाप्यत्वमनलाचलादिशब्दोच्चारणे वदनदाहपूरणादिप्रसङ्गानाङ्गीकर्त्तव्यम् । न चैवंवादिनः क्वचिदप्युपलभ्यन्ते, इति अतों नेह यत्नः, इति । तस्माद् व्यवहारान्यथानुपपत्तेरभिलाप्यानभिलाप्यमिति स्थितम् । न चात्र विरोधबाधा, अभिन्ननिमित्तत्वात्;
इत्याह स्वबुद्ध्याकारस्यापि संवित्तौ मया बाह्योऽर्थो गृहीत इत्यभिमानो भवति, तुल्यतैमिरिकबुद्धिवत् । तैमिरिको हि तैमिरिकस्य चन्द्रद्वयं प्रतिपादयति, स्वबुद्धिप्रतिभासं इतरोऽपि स्वबुद्धिप्रतिभासमेव प्रतिपाद्यते । बाह्यस्य चन्द्रद्वयस्याभावादिति भावना नरे मन्दप्रज्ञे, विषमशास्त्रस्य श्रयणे हि न यादृशो विकल्पो व्याख्यातुरस्ति शब्दात् तादृशः श्रोतुः सम्भवति तथोपलब्धेः; अन्यथा श्रोतुस्तच्छास्त्रानवगमाभावाद्वक्तृविकल्पसदृशविकल्पोत्पादेन, अनभ्युपगमे चानवगमाभावस्य प्रतीतिविरोधः ।
१. क्वचिदनवगमप्रतीतेः, क्वचिच्च सम्भवेऽपि वक्तृविकल्पसदृशश्रोतृविकल्पस्य अयं श्रोतृविकल्पो वक्तृविकल्पसदृशः, इति परिज्ञानाभावात् । तदवगमासम्भवात्, असम्भवश्च परचेतसोऽप्रत्यक्षत्वात् । (x अयं श्रोतृविकल्पो वक्तृविकल्पसदृशः ।) २. एकान्ताभिलाप्यत्ववादिनः ।
For Private and Personal Use Only