________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
७५ तथाहि-अभिलाप्यकधर्मकलापनिमित्तापेक्षया तदभिलाप्यम्, अनभिलाप्यधर्मकलापनिमित्तापेक्षया चानभिलाप्यम्, इति धर्मधर्मिणोश्च कथञ्चिद्भेदः, इति प्रतिपादितम् । ततश्चतद्यत एवाभिलाप्यम्, अत एवानभिलाप्यम्, अभिलाप्यधर्मकलापनिमित्तापेक्षयैव अभिलाप्यत्वाद्, अभिलाप्यधर्माणां चानभिलाप्यधर्माविनाभूतत्वाद् यत एव चानभिलाप्यम्, अत एव चाभिलाप्यम्, अनभिलाप्यधर्मकलापनिमित्तापेक्षयैव अनभिलाप्यत्वाद्, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वाद्, इति ।
स्यादेतद्, यदि तदभिलाप्यानभिलाप्यधर्मकम्, एवं तर्हि अभिलाप्यानां शब्देनाभिधीयमानत्वात् किमित्यकृतसङ्केतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान्न सम्प्रत्ययप्रवृत्ती भवतः ? इति । . अत्रोच्यते, तज्ज्ञानावरणकर्मक्षयोपशमाभावात्, तस्य च सङ्केताभिव्यङ्ग्यत्वात्; तथाहि-ज्ञस्वभाव
७
१. इह चाभिलाप्यधर्माः अभिधेयपरिणामाः । २. अतोऽन्ये सम्बन्धिवशात् तथा नाभिधीयन्ते इत्यनभिलाप्याः । ३. सदाद्यभिधेयपरिणामानां । ४. तथाविधस्वसंवेद्यानाख्येयधर्माविनाभूतत्वात् । ५. धर्माणाम् । ६. श्रोतुः । ७. तस्मिन्नकृतसंकेतवाच्ये । ८. क्षयोपशमस्य ।
For Private and Personal Use Only