________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
अनेकान्तवादप्रवेशः स्यात्मनो मिथ्यात्वादिजनितज्ञानावरणादिकर्ममलपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावेवापाद्यते; ततो विवक्षितार्थाकारसंवेदनं प्रवर्त्तते, इति; अन्यथा, तत्प्रवृत्त्यभावात् । तत्प्रथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तुमशक्यत्वात्; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तत्सङ्केतकरणे च तत्राप्ययमेव वृत्तान्तः, इति, अनवस्थाप्रसङ्गः । क्वचिदवस्थाने चास्मन्मतानुवाद एव, नहि कथञ्चिद्वास्तवसम्बन्धाभावे सत्यवस्थानं प्रयुज्यते, इति ।
स्यादेतद्, अर्भकोऽप्यसकृद् ‘अयम्' इत्यादिशब्दसङ्केत्यार्थसन्निधावुच्चार्यमाणमाकर्ण्य व्यवहत॒श्च
१. आदिपदादविर त्यादिग्रहः, मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, इति वचनात् । २. आदिपदाद् दर्शनावरणादिग्रहः । ३. आदिशब्द एतेषामेव स्वभेदप्रख्यापकः । ४. क्षयोपशमादेः। ५. अभावोऽपि कुत इत्याह । ६. तज्जन्मापेक्षया । ७. सङ्केतशब्दादपि सकाशात् । ८. सङ्केतशब्दार्थे । ९. अयुक्ता च सङ्केतवैयर्थ्यप्रसङ्गात् प्रसङ्गश्च सङ्केतितादपि सङ्केतशब्दात् तदर्थप्रतीतेः । १०. सङ्केतशब्दस्य । ११. अपरसङ्केतशब्दे । १२. यदुत तत्सकेतकरणमेव । १३. शब्दान्तरे । १४. अशङ्कितादेव तत् प्रतीतावभ्युपगम्यमानायामित्यर्थः। १५. अयं घट इत्यादिरूपम्।
For Private and Personal Use Only