SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० अनेकान्तवादप्रवेशः ६ ७ तथा व्यवहारे प्रवर्त्तमानान् दृष्ट्वा प्रतिपद्यते शब्दार्थम्, इति; तथाहि - न मात्रादिभिरपि कस्यचित्सङ्केतः क्रियते, इति; दृश्यते च तत्प्रतिपत्तिः, इति । अत्रोच्यते, दृश्यते खल्वियं प्रतिपत्तिः, किं तु भवत्पक्षे न युज्यते, असकृद्दर्शनपक्षेऽपि तत्प्रथमतया शब्दात् प्रतिपत्त्यभावाद, भावे च कथञ्चिद्वास्तवसम्बन्धसिद्धेः, अनादिसंसारपक्षेऽपि कथञ्चिद्वास्तवशब्दार्थसम्बन्धसिद्धेः, 'शब्दो हि विकल्पजन्मा' इत्यादिनिराकरणेन च सङ्केतस्य निषिद्धत्वात्, तथा प्रकरणादभिव्यक्तक्षयोपशमानां केषाञ्चित्सङ्के - तमन्तरेणैव शब्दार्थप्रतिपत्तिदर्शनाद् । अलं प्रसङ्गेन । ११ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ७७ १. तदानयनादौ । २. अयमित्यादिना शब्देन पुरोऽवस्थितार्थरूपम् । ३. एतदेव भावयति तथाहीत्यादिना । ४. अर्भकस्य । ५. घटादेः । ६. कालेन । ७. तज्जन्मापेक्षया । ८. प्रथमशब्दात् I ९. प्रतिपत्त्यभावश्चासङ्केतितत्वात् शब्दार्थयोः । १०. अनादित्वात् संसारस्यासकृच्छ्रुतत्वात् सर्वशब्दानां तत्र तत्र व्यवहारे आद्यशब्दश्रवणाद्वाच्यप्रतीतिसिद्धिरिति चेत्ततश्चाद्यशब्दात् प्रतिपत्त्यभाव इत्यचारु । एतदाशङक्याह- अनादि इति, अनादावपि संसारे तस्य विवक्षितस्यायमित्यादेः शब्दस्य पुरोऽवस्थितभाववाचकत्वेन श्रवणवद्वाच्यार्थप्रतीतिसिद्धेः इत्येवमनादिमान् वाच्यवाचकभाव: शब्दार्थयोरिति । ११. समुच्चये प्रस्तावात् ।
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy