________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मान्यभा ३४
१५
६४
अनेकान्तवादप्रवेशः परिणामत्वात्; अस्यैव च सामान्यभावोपपत्तेः, 'समानानां भावः सामान्यम् इति, यत्समानैस्तथाभूयते' इत्यन्वर्थयोगात्, अर्थान्तर भूतभावस्य तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगाद्; अन्यथा, 'समानानाम्' इत्यभिधानाभावादयुक्तैव तत्कल्पना । समानत्वं च भेदाविनाभाव्येव, तदभावे च सर्वथैकत्वतः समानत्वानुपपत्तिः, इति समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तम् । यतश्चैवम् अतो न य एवासावेकस्मिन् विशेषे, स एव विशेषान्तरे ।
किं तर्हि ?
१. समानपरिणामस्य । २. उपपत्तिरपि कुतः ? इत्याहसमानानामिति । ३. यदिति क्रियाविशेषणं । ४. समानैस्तथाभूयते इत्यनेन समानानामित्यत्र कर्तरि षष्ठीति ज्ञापितम् । ५. समानतया । ६. ...मत्वर्थः समानानामिति सम्बन्धषष्ठी-नः परस्य पक्षे...त्येकार्थेति । ७. सम्बन्धपक्षे समानानां सम्बन्धिनः तेषां समानानां समानत्वे प्रकृत्यैवेति भावः । ८. अन्तरेणैव ते समाना इति कृत्वा । ९. अन्यथैवमनभ्युपगमे, अन्तरेण प्रकृत्या तदसमानत्वे समानानामित्यभिधानाभावात् । १०. अधिकृतभावकल्पनासमानानां भाव इत्येतत्सम्बन्धिनां समानानामिति कृत्वा । ११. तुल्यत्वं । १२. अयं अनन्यसमान इति नीतेः । १३. भेदाभावे । १४. समानपरिणामः । १५. घटादौ । १६. शरावादौ ।
For Private and Personal Use Only