________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
६३ अत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्तते, इति, अतोऽस्य यथोक्ताभिन्नबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य सत्त्वमाश्रयितव्यम्, इति ।
अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते ।
किं तर्हि ? ।
एकादिधर्मयुक्तं परपरिकल्पितं सामान्यम्, इति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति, तथा निदर्शितमेव ।
__ आह-किं पुनर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनम्, इति ।
उच्यते-अनेकधर्मात्मकस्य वस्तुनः समानपरिणामः, इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलकप्रभवदोषसम्भवः, समानपरिणामस्य तद्विलक्षणत्वात्, तुल्यपरिच्छेद्यवस्तुरूपस्य समान
१. जातिभेदापेक्षया । २. मृद्-मृदित्यादि । ३. मदमदित्यादिरूपतया । ४. सत्त्वज्ञेयत्वादि ।५. घटशरावादेः । ६. मृन्मृदित्यभिन्नबुद्धिशब्दद्वयप्रवर्तकः । ७. समानपरिणामे । ८. देशकात्य॑वृत्तिरूपसामान्यानन्त्यादीनां। ९. एकादिधर्मकसामान्यविलक्षणत्वात् । १०. वैलक्षण्यमेवाह ।
For Private and Personal Use Only