________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
अनेकान्तवादप्रवेश:
‘विशिष्टभावभावाभावगम्या एव भागा:' इत्यवगमे निवेश्यतां चित्तम्, इति । अलं प्रसङ्गेन ।
एतेन नित्यव्यापि ( ०त्यनिरवयवाऽक्रिययाप्य० ) निर्देशसामान्यवृत्तिरपि प्रत्युक्ता ।
७
आह- अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम्, आयासस्य निष्फलत्वात्; तथाहि - यदि 'सनातनं वस्तु सद् व्यापि एकं अनवयवं ' सामान्यवस्तु न स्यात्, न तदा देशकालस्वभावभेदभिन्नेषु घटशरावो (०ष्ट्रिको दञ्चनादि ० ) दञ्चनालिन्तरादिषु ( ? ) विशेषेषु सर्वत्र 'मृद, मृद्,' इत्यभिन्नौ बुद्धिशब्दौ स्याताम् । न खलु हिमतुषारकरकोदकाङ्गारमुर्मुरज्वालानलझझामण्डलि कोत्कलिकापवनखदिरोदुम्बरिकादिषु
Acharya Shri Kailassagarsuri Gyanmandir
१. विशिष्ट भावोऽन्यव्यावृत्ततया विन्ध्यभाव एव तस्य सत्त्वासत्त्वाभ्याम् । २. नहि निर्भागे परमाणौ कार्यस्य द्व्यणुकक्वचिद्भावः क्वचिन्नेति स्वदर्शनस्थित्याऽप्यवगमे निवेश्यतां चित्तम् । ३. एकसामान्यवृत्तिनिराकरणेन । ४. नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः । व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् । ५. विशेषेषु । ६. नित्यं । ७. परमार्थसत् । ८. विरलाग्निकणा मुर्मुरः । ९ मूलाग्निविच्छिन्नज्वाला ।
For Private and Personal Use Only