________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनेकान्तवादप्रवेशः
Acharya Shri Kailassagarsuri Gyanmandir
किञ्चातः ? ।
यद्यनन्यत्वम्, किं सर्वथा ? आहोश्चित् कथञ्चित् ? यदि सर्वथा, हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात्, तदभाववत्, नभोभागाव्यतिरिक्तत्वात्, तद्भाववन्नभोभागस्य विपर्ययो वा । अथ कथञ्चिद्, अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः । अथान्यत्वम्, किं सर्वथा ? उत कथञ्चित् ? यदि सर्वथा, अन्यतमस्यानभोभागस्य (त्व) प्रसङ्गः, सर्वथा भेदान्यथानुपपत्तेः । अथ कथञ्चित्, स्वदर्शनपरित्यागदोष:, इति ।
स्यादेतद् भागानभ्युपगमाद् व्योम्नो यथोक्तदोषानुपपत्ति:, इति । अनभ्युपगममात्रभक्तो देवानांप्रिये देवानांप्रिये सुखैधितो नोपपत्तिप्राप्तानपि भागानवगच्छति, इति । ननु
*
६१
१. विन्ध्यभावयुक्तस्य नभोभागस्य 1 २. यत्राभावस्तत्रापि भावप्राप्तिः । सिद्धान्तः । ३. यत्र विन्ध्यभावो यत्राभाव इत्यनयोरेकस्य । ४. सर्वधर्मवैलक्षण्ये हि सर्वथा भेदस्त-स्मिंश्च सत्येकस्य भावरूपताऽपरस्य चापिनेति अनभोभागत्वमेव भवतीति भावना । ५. मूर्खः, इत्यर्थः । ६. शास्त्रग्रहणे परिश्रमत्यागेन सुखवर्द्धितः । ७. विन्ध्यभावाभावाभ्याम् । ८. एतद्भावनायैवाह ।
For Private and Personal Use Only