________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
·
अनेकान्तवादप्रवेश:
अविचारितरमणीयत्वात् वृत्त्यदर्शनात् ।
कार्त्स्यदेशव्यतिरेकेण
उभयव्यतिरेकेण नभसो वृत्ति:, इति चेत् ? ने, नभसः सप्रदेशत्वाभ्युपगमात्
असिद्धत्वात्,
1
निः प्रदेशत्वे चानेकदोषप्रसङ्गात्; तथाहि - येन देशेन विन्ध्येन सह संयुक्तं नभः हिमवन्मन्दरादिभिरपि किं तेनैव ? आहोश्चिदन्येन ? इति । यदि तेनैव, विन्ध्यहिमवदादीनामेकत्रावस्थानादिप्रसङ्गः, निः प्रदेशका - काशसंयोगान्यथानुपपत्तेः । अथान्येन; आयातं तर्हि सदेशत्वमाकाशस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
1
स्यादेतद् अदृशत्वाद् वियतो यथोक्तविकल्पासम्भवः, तत्रैकस्मिन्नेव तेषामवस्थितत्वाद् । इदमप्ययुक्तम्, वस्तुतः पूर्वोक्तदोषानतिवृत्तेः । च सर्वव्यापिनो विन्ध्यादयः, इति येन तस्मिन्नेव तेषामवस्थितत्वादु, इति सफलं भवेद्, इति; यतो यंत्र विन्ध्यभावो यत्राभाव:, इत्यनयोर्नभोभागयोरन्यत्वम् ? अनन्यत्वं च ? इति वाच्यम् ।
१. भावेषु । २. अधिकृतनभोवृत्तिः । ३. जैनैः । ४. निःप्रदेशं च तदेकाकाशं च तेन सम्बन्धः । ५. देशेन । ६. निः प्रदेशे । ७. विन्ध्यादीनां ॥८. विन्ध्याद्येकत्रावस्थानप्रसङ्गः । ९. पूर्वोक्तदोषानतिवृत्तिमेवान्यथा समर्थयन्नाह - न चेति । १०. देशे । ११. विन्ध्याभावयुक्त ।
For Private and Personal Use Only