________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः एदप्ययुक्तम्, ईहादिगोचराणां प्रायोऽवग्रहोत्तरकालं प्रमातृभिर्गृह्यमाणत्वात्, सजातीयभेदस्य च कदाचित् कैश्चिदपि ग्रहणानुपपत्तेः; 'योगिनो गृह्णन्ति' इत्येतदपि श्रद्धागम्यम्, प्रमाणाभावाद्, इत्युक्तम् ।
यच्चोक्तम्-'एकं सामान्यम्, अनेके विशेषाः;' इत्यादि,तदप्ययुक्तम्, अनभ्युपगमात् । नहि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात्; तथाहि-तदेकादिस्वभावं सामान्यमनेकेषु दिग्देशसमयस्वभावभिन्नेषु विशेषेषु सर्वात्मना वा ? देशेन वा वर्तेत ? न तावत्सर्वात्मना, सामान्यानन्त्यप्रसङ्गाद्, विशेषाणामनन्तत्वात्, एकविशेषव्यतिरेकेण वान्येषां सामान्यशून्यतापत्तेः, आनन्त्ये चैकत्वविरोधात् । नापि देशेन, सदेशत्वप्रसङ्गात्, न च गगनवद् व्यापित्वाद् वर्त्तते, इति अकलङ्कन्यायानुसारि चेतोहरं वचः,
१. यदाऽवग्रहादयः सामस्त्येन स्युस्तदाऽवग्रहोत्तरकालमीहादिगोचरा गृह्यन्ते, यदा त्वेते सामस्त्येन न स्युस्तदा न गृह्यन्ते अपि, यतो दृश्यत एवेहाद्यभावेऽपि क्वचिदवग्रहमात्रम्। तथा निरवायेहानिर्धारणश्चावायस्तथा तदनुभवसिद्धेः, इति व्यवच्छेदार्थं प्रायो ग्रहणम् । २. एकनित्यनिरवयवाक्रियसर्वगरूपम् ।३.घटादिषु ।४.अन्येषां सामान्यशून्यतापरिहाराय सामान्यानामानन्त्येऽभ्युपगम्यमाने एकसामान्यमिति विरुध्यते ।
-
For Private and Personal Use Only