________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५८
अनेकान्तवादप्रवेशः
णामवगमः; अभ्युपगमे वा, अभ्युपगमे वा, गृहीतग्राहित्वेनेहादीनामप्रमाणत्वप्रसङ्गात् । तथाऽस्माकमप्यर्वाग्रहशां क्लिष्टचित्तत्वात् सतोऽपि सजातीयभेदस्य तदानवगमः, सकलरागादिवासनाकलङ्कविकलास्तु योगिनोऽवगच्छन्त्येव, इति ।
Acharya Shri Kailassagarsuri Gyanmandir
सद्भूतार्थविशेषोपादानोऽभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शाखादिशब्दधर्मा दृश्यन्ते, न खरकर्कशनिष्ठुरतादयो शार्ङ्गादिशब्दधर्माः, इत्येवंरूपो मतिविशेष ईहेत्यर्थः । तथा तस्यैवावगृहीतस्ये हितस्य चार्थस्य निर्णयरूपोऽध्यवसायो ( वा ) ऽपाय:, एवं शाङ्ख एवायं शार्ङ्ग एवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययो वा ( पा ) यः इति भावः । तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा, अविच्युतिः, वासना, स्मृतिश्च । तत्र तदुपयोगादविच्यवनं अविच्युतिः, सा चान्तर्मुहूर्त्तप्रमाणा; ततस्तया आहितो यः संस्कार:, सा वासना; सा च संख्येयमसंख्येयं वा कालं यावद्भवति, संख्येयवर्षायुषां संख्येयं कालमसंख्येवर्षायुषामस
ङ्खयकालमिति भावार्थ:, ततः कालान्तरे कुतश्चित्तादृशार्थ - दर्शनादिकात् कारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलब्धमित्यादिरूपं सा स्मृतिः । एताश्चाविच्युतिवासनास्मृतयो धरणलक्षणसामान्यान्वर्थ योगाद् धारणाशब्दवाच्याः । अवग्रहादयोऽनेनैव क्रमेण स्युः तथाहिनानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यते । । २. अर्वाग्दर्शिताकाले ।
१. अवगमस्य
For Private and Personal Use Only