________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
३
४
समाने, इति; कुतः सामान्यविचारोदितभेदद्वयसमुत्थापराधावकाश: ? इति । न चैवं सति परस्परविलक्षणत्वाद् विशेषाणां समानबुद्धिशब्दद्वयप्रवृत्त्यभाव:, सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः । असमानपरिणामनिबन्धना च विशेषबुद्धिरिह, इति यथोदितबुद्धिशब्दद्वयप्रवृतिः इति । तथा चोक्तम्'वस्तुन एव समानः परिणामो यः स एव सामान्यम् । असमानवस्तु विशेषो वस्त्वेवमनेकरूपं तु ॥ १ ॥'
ततश्च तद्यत एव सामान्यरूपम्, अत एव विशेषरूपम्, समानपरिणामस्यासमानपरिणामाविनाभूतत्वात् । यत एव विशेषरूपम्, अत एव सामान्यरूपम्, असमानस्यापि समानपरिणामाविनाभूतत्वाद्, इति । न चानयोर्विरोधः, समानासमानपरिणामयोरुभयोरपि स्वसंवेदनस्योभयरूपत्वाद्;
उभयरूपतायाश्च व्यवस्थापितत्वात् ।
६५
यच्चोक्तम्- 'सामान्यविशेषरूपत्वे सति वस्तुनः
For Private and Personal Use Only
१. देशकायें । २. सदेशत्वादि । ३. घटशरावादीनाम् । ४. हिमाङ्गारादीनामिव । ५. व्यतिरेकमाह । ६. घटादेः । ७. मृदादिः । ८. ऊर्ध्वत्वादिः । ९. सामान्यविशेषोभयरूपम् । १०. मृदाद्यात्मतया । ११. ऊर्ध्वादिरूपापेक्षया । १२. समानासमानयोः परिणामयोः ।