SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ अनेकान्तवादप्रवेशः विलक्षणत्वे सर्वभावानां कः केन समानकारणः ? समानकार्यो वा? इति स्वदर्शनानुरागं परित्यज्य लोचने निमील्य चिन्त्यताम्, इति । असति च समानकारणत्वादावतत्कारणात् तत्कार्यव्यावृत्तिरिति, कैषा वाचो युक्तिः ? स्वकारणप्रभवश्च कार्यसाधकस्वरूपव्यतिरेकेण वस्तुतः सर्वभावानां सर्वभावेभ्य एवाविशेषेण व्यावृत्तत्वात्, इति । पर्याप्तं प्रसङ्गेन, प्रकृतं प्रस्तुमः स्यादेतद्, असौ निर्विकल्पानुभवो विजातीयभेदग्रहणेऽभ्रान्तः, सजातीयभेदग्रहणे पुनर्भ्रान्तः, इति; अतस्तद्ग्राहकविकल्पासम्भवः, इति । एतदप्यसद्, एकस्य भ्रान्ताभ्रान्तत्वायोगाद्, अभ्रान्तविशेषणानुपपत्तेश्च । अथोच्नेत-असौ विजातीयभेदग्रहणे पटुः इतर १. अथाहो बौद्ध एवं मन्यसे । २. निर्विकल्पानुभवेन हि सजातीयभेदो... भेदश्चोभावपि... भावेव । परं विजातीयभेदग्रहेऽभ्रान्त... तिपृष्टभाविनं विजातीयभेदग्राहक विकल्पमुत्पादयति सजातीयभेदग्रहे तु भ्रान्त उत्पन्नइति ।... विनं सजातीयभेदग्राहकं विकल्पं वोत्पादयतीति न पूर्वोक्तदोषः । ३. सजातीयभेद । ४. प्रत्यक्षं कल्पनापोढमभ्रान्तमित्येवं यनिर्विकल्पकमभ्रान्तत्वेन विशिष्यते तस्याघटना... तं त्वस्याप्यभ्युपगमात् । ५. निर्विकल्पानुभवः । ६. सजातीयः । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy