________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः एतदप्यसारम्, सादृश्यस्य परिकल्पितत्वात्; परिकल्पितस्य च सजातीयभेदग्राहकविकल्पप्रभवाप्रतिबन्धकत्वात्; प्रतिबन्धकत्वे च विजातीयभेदग्राहकविकल्पोदयोऽपि न स्यात्। तस्य तैरपि सह सादृश्यस्य परिकल्पयितुं शक्यत्वात्; कल्पनायाः पुरुषेच्छामात्रनिबन्धनत्वात्; तदकारणात् तत्कार्यव्यावृत्त्यादिलक्षणस्य सादृश्यनिबन्धनस्य मिथोऽत्यन्तविलक्षणस्वभावसकलभाववादिनो वाङ्मात्रत्वात्; तथाहि- सजातीयासजातीयव्यावृत्त्या अविशेषेण
१. सादृश्यं हि वस्तुनोऽसत्त्वात् न सजातीयभेदग्राहकविकल्पोत्पत्तिं प्रतिबध्नाति, प्रतिबध्नातिचेद्विजातीयभेदग्राहकविकल्पोदयमिति प्रतिबध्नीयात् । २. सजातीयेन विविक्तैकस्वभावानामत्यन्तवैलक्षण्यस्य वस्तुत्वाङ्गीकारेण । ३. सादृश्यस्य । ४. परिकल्पितस्य । ५. विजातीयैरपि । ६. एकान्तवैलक्षण्याविशेषेऽपि यथा सजातीयं मिथः सादृश्ये भवद्भिः परिकल्पितमेवं विजातीयैरपि सह तत् परिकल्पयितुं शक्यत एवेत्यर्थः । ७. सा मृत्कारणं यस्य तत्कारणो घटो न तत्कारणोऽतत्कारणः परादिरेवं तज्जलानयनादिकार्यं यस्य स तत्कार्यो घटो न तत्कार्योऽतत्कार्यः पटादिरेव, तद्व्यावृत्त्यादि, आदिपदादनदाकार... घटादिषु सादृश्यस्य कारणं भण्यते न वाङमात्रमेव, वस्तुतः सर्वेषां भावानामविशेषेणात्यन्तं विसदृशत्वाभ्युपगमात् ।
For Private and Personal Use Only