________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
५६
भेदग्रहणे पुनरपटुः, पट्वनुभवाहितसंस्कारप्रकोपसामर्थ्याच्च विजातीय भेदग्राहक विकल्पनिष्पादनायैवालम्, न इतरभेदग्राहकविकल्पनिष्पादनाय इत्येतदप्यनल्पस्य तमसो विजृम्भितिम्; यतः - असावनुभवो येन स्वभावेन विजातीयभेदग्रहणे पटुः, तेनैवेतरभेदग्रहणेऽपटुः ? आहोश्चिदन्येन ?
किं
किञ्चात: ?
-
यदि तेनैव, विजातीयभेदग्रहणवत् तत एव सजातीयभेदग्रहणमप्यविकलं स्याद्; विपर्ययो वा तथा च सत्युभयत्र पटुत्वेतराविशेषवत् तदनुभवाहितसंस्कारप्रकोपसामर्थ्यस्य तुल्यत्वात् वि
जातीयभेदग्राहकविकल्पवृदितरभेदग्राहकविकल्पोऽपि स्याद्; विपर्ययो वा तदाहितसंस्कारस्य विकल्पनिबन्धनस्योभयत्र तुल्यत्वात् ।
?
१०
अथान्येन, अनुभवस्योभयस्वभावापत्ति:, तथा
For Private and Personal Use Only
१. उद्रेक । २. सजातीय । ३. निर्विकल्प । ४. सजातीय । ५. स्वभावस्य । ६. विजातीयसजातीयभेदग्रहणयोः । ७. स्वभावस्यैकत्वात् । ८. सजातीयभेदा... सजातीयभेदस्याग्रहणं स्यात् स्वभावस्येकत्वात्य... पटुत्वापटुत्वयोरविशेषस्तुल्यत्वमेवं संस्कारसामर्थ्यस्यापि तुल्यत्वात् । ९. अनुभवः । १०. द्वितीयपक्षे ।