SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनेकान्तवादप्रवेशः इत्यादि कृतं विस्तरेण । Acharya Shri Kailassagarsuri Gyanmandir इति नित्यत्वानित्यत्ववादः ।। २ । (३) ५१ यच्चोक्तम्- 'एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्' इत्यादि । तदप्ययुक्तम्, सामान्यविशेषरुपस्य वस्तुनोऽनुभवसिद्धत्वात्; तथाहिघटादिषु 'घटो घट:' इति सामान्याकारा बुद्धिरुत्पद्यते, 'मार्तिकस्ताम्रो राजत:' इति विशेषाकारा च; पटादिर्वा न भवति, इति । नार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्त्वानां सर्वज्ञत्वप्रसङ्गात् 1 सर्वार्थानामेव सद्भावस्याविशेषात् । किं तर्हि ? अर्थविज्ञानसद्भावान्निश्चयः, ज्ञानं च सामान्यविशेषाकारमेवोपजायते । इत्यतोऽनुभवसिद्धत्वात्सामान्यविशेषरूपं वस्तु; इति । न च 'अयमनुभवो भ्रान्तः' इति युज्यते, घटादिसन्निधावविकलतदन्यकारणानां ७ For Private and Personal Use Only सर्वेषामेवाविशेषेणोपजायमानत्वात् । - १. भेदाभेद । २. 'घट:' इत्येवंरूपोल्लेखः । ३. कारणादेव । ४. कुतः प्रसङ्गः ? इत्याह । ५. भुवनोदरवर्त्तिनाम् । ६. सर्वसद्भावस्य । ७. सति । ८. सम्पूर्णालोकादिकारणानामित्यर्थः । ९. प्रमातॄणां सामान्येन भिक्षूपायकादीनामपि ।
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy