________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
अनेकान्तवादप्रवेशः स्यादेतद्-विकल्पोयं 'घटो घटः' इत्येतद्रूपपरावृत्तवस्तुजन्यः, संकेतवासनोत्थोऽपि तत्त्वान्न वस्तुस्वरूपग्राही, तद्ग्राही तु सजातीयासुजातीयव्यावृत्तवस्तुस्वलक्षणविषयत्वान्न यथोक्तप्रकारः; इत्यतो 'अनुभवसिद्धत्वाद्' इत्ययुक्तम् ।
न, निर्विकल्पकानुभवस्यापि तत्त्वतो यथोक्तप्रकारत्वात्, गृहीतग्राहित्वेन विकल्पस्य प्रामाण्यानभ्युपगमात्; अन्यथा, गृहीतग्राहित्वानुपपत्तेः; एकस्याकारभेदेनाप्रतिभासनात्, हेत्वयोगेन च परपक्षे विकल्पाभावस्य प्रतिपादितत्वात्, इति ।
१. 'घटो घटः' इत्येवंरूपोल्लेखः । २. एतस्य घटस्य यद्रूपं सजातीयासजातीयव्यावृत्तिलक्षणम्, तस्मात् परावृत्तंनिवृत्तं पराभिमतत्वेन वस्तु सामान्याख्यम्, तजन्यः । ३. सामान्यविशेषाकारः । ४. सामान्यविशेषाकारत्वात् । ५. यदि निर्विकल्पकं सामान्यविशेषाकारं न स्यात्तदा सविकल्पकस्य यद् गृहीतं इत्येवंकारेण वा विशेषाकारा । ६. ग्राहित्वमभ्युपगम्यते तन्नोपपद्यते, यदि हि सामान्यविशेषौ निर्विकल्पेन गृहीतौ सविकल्पं गृह्णाति, तदैव तद्गृहीतग्राहित्वादप्रमाणं स्यात् । अथैकस्वभावाद् वस्तुतः सामान्यविशेषनिर्विकल्पोत्पत्तिरिति न वाच्यम्, यदि हि वस्त्वेकस्वभावं स्यात् तदा आकारभेदेन प्रतिभासभेदो न स्याद्, सविकल्प एवाकारभेदेन प्रतिभासते नाविकल्प इत्यपि न वाच्यम् । हेत्वयोगेन परपक्षे विकल्पस्यैवाभाव इति
For Private and Personal Use Only