________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
बन्धनाभ्युपगमे च पर्यायतः समानपरिणाम एवाभ्युपगतः, इति न काचिन्नो बाधा । इत्यलं विस्तरेण।
तथैकान्तानिवृत्तौ तद्विलक्षणबुद्ध्यभाव एव, इति न स्यात्कपालबुद्धिः, विशेषाभावात्; तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात्, इति ।
एतेन स्यादारेका-'नहि कूटस्थनित्यतया-' इत्यादि यदाशङ्कयोक्तम्-'पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धिः' इत्यादि । तदपि प्रतिक्षिप्तमेवावगन्तव्यम्, कथञ्चिद्व्यतिरेकसिद्धेः, इति । तथाचोक्तम्'द्रव्यपर्याययोः सिद्धो भेदाभेदः प्रमाणतः ।। संवेदनं यतः सर्वमन्वयव्यतिरेकवत् ॥ १ ॥ स्वसंवेदनसिद्धे च विरोधोद्भावनं नृणाम् । व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ।।२॥' प्रतीतिप्रतिनियतं च तदेकस्वभावानुभवनिबन्धनं च तुल्यस्वभावानुकारणं चेति विग्रहः ।
१. अत्र च वस्तुनि न किञ्चिदेकान्तेन निवर्त्तते, नापि तिष्ठति, तर्हि वस्त्वेकतत्तथाभवतीति प्रसिद्धमेतत्, न चेह वस्तुनि किञ्चिन्निवर्त्ततेऽपि किञ्चित् अन्यथा दोषः, इत्याहएकान्तेत्यादि । २. घटविलक्षणबुद्ध्यभावः । ३. कपाले बुद्ध्यभावहेतुर्विशेषाभावोऽपि तस्य घटवस्तुनः कुतः ? इत्याह-अप्रच्युतेत्यादि ।
For Private and Personal Use Only