________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः ।
४९
स्यादेतद्, वस्तुनः सजातीयेतरव्यावृत्तस्वरूप
प्रतिनियतैकस्वभावत्वात्सर्वभावानां यथोक्तदोषाभावः, तथा च यथैवासौ कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि, तस्यैकस्वभावत्वात्तेनैव रूपेण व्यावृत्तत्वाद्, इति ।
एतदप्ययुक्तम्, अनुभवविरुद्धत्वात्; तथाहियदि, स येनैव स्वभावेनामृत्स्वभावेभ्यो व्यावृत्तः, तेनैव मृत्स्वभावेभ्योपि; हन्त ! तर्हि, यथैवा. मृत्स्वभावभावैकान्तविभिन्नावभासहेतुः, तथैव मृत्स्वभावापेक्षयापि स्यात्। न च भवति, मृत्स्वभावस्यानुभूयमानत्वात् तस्यैव तथा परिणतिदर्शनात्; अनुभवस्य चापह्नोतुमशक्यत्वात् 'अनुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति । प्रतिनियतैकस्वभावानुभवनि
१. अत एव । २. कपालादीनाम् । ३. अमृत्स्वभावव्यावृत्तावपि मृत्स्वभावत्वानुपपत्त्यवसानदोषाभावः । ४. व्यावृत्तो मृत्स्वभाव एव। ५. एकस्वभावेन । ६. कपालभावः । ७. उदकादिभ्यः । ८. हन्त इति विषादे । ९. तर्हि इत्यक्षमायाम् । १०. उदकादिभ्यः । ११. तदेकान्तविभिन्नावभासहेतुरेव । १२. कपाले । १३. शिष्टा अनुभवमेव प्रमाणं अर्थाधिगमविषये वदन्तीत्यर्थः । १४. ननु ज्वरादिशमनौषधनिदर्शनेन प्रतिनियतं मृत्पिण्डादिषु तथैकत्वस्वभावानुभवनिबन्धनं किञ्चिदिष्यत इत्येतदाशङ्कयाह
For Private and Personal Use Only