________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
अनेकान्तवादप्रवेश:
कपालमृद् घटमृदः सर्वथाऽन्यैव तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गातू; यथोदकं न मृत्, ततोऽत्यन्तभेदाद्; एवमसावपि स्यात्, तस्याविशेषाद् इति ।
स्यादेतद्-अमृत्स्वभावेभ्यो व्यावृत्तत्वात् कपालपदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावाद् इति ।
Acharya Shri Kailassagarsuri Gyanmandir
१०
१२
एतदप्यसमीक्षिताभिधानम्, वस्तुनो सजातीयेतर - व्यावृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि - अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तस्वभावः; एवं संति कपालपदार्थः स्यात्; न तु मृत्पिण्डशिवकघटादिभ्यो मृत्स्वभावेभ्योऽपि तद्व्यावृत्तावमृत्स्वभावत्वप्रसङ्गात्; यथैवामृत्स्वभावेभ्यो व्यावृत्तः स मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभाव स्यात्, न्यायानुगतमेतद्; अन्यथा, अमृत्स्वभावव्यावृत्तावपि मृत्स्वभावानुपपत्तेः ।
१४
१. सकाशात् । २. मृत्स्वरूपाननुविद्धोद्धर्वादिपर्यायानुपलम्भात् । घटमृदा सहात्यन्तभेदे ३. घटमृदः । ४. कपालमृदः । ५. घटमृदः कपालमृत् । ६. अमृदेव । ७. उदकादिभ्यः । ८. नह्यदकममृत्स्वभावेभ्यो व्यावृत्तम् । ९. अमृत्त्वादेव । १०. कपालमृदादेः । ११. मृत्स्वभावव्यावृत्त्यभ्युपगमे सति । १२. व्यावृत्तस्वभावः I १३. मृत्स्वभावेभ्योऽपि १४. सन् । कपालपदार्थः । १५. न्यायश्च 'यो यत्स्वभावेभ्यो व्यावर्त्तते, नासौ तत्स्वभावो भवति' इत्ययम् ।
1
For Private and Personal Use Only