________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः ४७ इत्यादि ।
स्यादेतत्,पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति किं ? वा न ? इति किञ्चातः ? यदि भवति, अनित्यमेव तत्, निवृत्तिमत्त्वात्, पर्यायस्वात्मवत् । अथ न भवति, हन्त !, तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः; तथाहि-पर्यायेभ्योऽन्यद्रव्यम्, तन्निवृत्तावपि तस्यानिवृत्तेः, क्रमेलकादिव कर्कः, इति ।
एतदप्ययुक्तम्, कथञ्चिन्निवृत्तिभावात् । अस्य चानुभवसिद्धत्वात्; तथाहि-घट पर्यायनिवृत्तौ कपालकालेऽपि तद्बुद्व्या मृदनुभूयत एव; तदेकान्तनिवृत्तौ चोर्ध्वादिपर्यायवन्नानुभूयेत । 'ऊर्ध्वादिनिवृत्तित एव भेदसिद्धिः' इति चेत् ? न, ऊर्ध्वादेरपि मृदः सर्वथा भेदासिद्धेः । न चासौ
१. पर्याय । २. द्रव्यस्य । ३. *तन्निवृत्तत्वलक्षणेन...। ( * तस्य द्रव्यस्य संबन्धी निवृत्त...।) ४. कपाल । ५. मृदा सहात्यन्तभेदः । ६. मृन्निवृत्तौ... मूद्धर्वादिपर्यायवनानुभूयते, नहि मृन्निवृत्तावूर्वादिपर्यायोऽनुभूयते । ७. मृदनिवृत्तावपि सत्यामूर्खादिनिवृत्तित एव कारणादूर्वादे... द्धिः, इति चेत् ? ८. पर्याय ।
For Private and Personal Use Only