SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः विरोधः । अथ नानात्वम्, तदपि सर्वथा ? कथञ्चिद्वा? इति; यदि सर्वथा, हन्त ! तर्हि स्थित्यस्थितिस्वभावशून्यत्वान्निःस्वभावत्वात् कुतोऽभीष्ट व स्थितिः ? । अथ कथञ्चिद्, अत्रोक्तो दोषः । स्यादेतद्, परिकल्पितो धर्मधर्मिभावः, न पुनर्वास्तवः, इति; एवमपि धर्मधर्मिणोः परिकल्पितत्वाच्छून्यताप्रसङ्गः, तदेवमपि कुतः क्षणस्थितिधर्मकत्वम् ? इति । तदितरव्यावृत्तिद्वारायाता धर्मा एव परिकल्पिता:, न धर्मी, इति चेत् ? एवमपि स्थित्यस्थित्यादिलक्षणपरिकल्पितधर्मव्यतिरिक्तस्य धर्मिणः किं स्वरूपम् ? इति वाच्यम् । क्षणस्थितिधर्मकत्वम् ? इति चेत्, न, तस्यैवायोगाद्, इत्यादि तदेवावर्त्तते; इत्यलं प्रसङ्गेन । तदेवमिहापि विज्ञानादिकार्यायोगः, इति स्थितम् । नित्यानित्यं पुनः कथञ्चिदवस्थितत्वादनेकस्वभाव १. भेदः । २. अत एव । ३. क्षणस्थितिधर्मक । ४. असत्त्वात् । ५. नश्वराद् व्यावृत्तोऽनश्वरः, तस्माच्च व्यावृत्तो नश्वरः, इत्यादि, व्यावृत्तिद्वारायातत्वान्नश्वरादयो धर्मा एवापारमार्थिकाः, एकस्वरूपं वस्तु पुनः परमार्थसदेव । ६. द्रव्यरूपतया । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy